________________
६३] हेतुभेदाः
३८१ प्रसङ्गात् ; अत्रापि तदेवोत्तरम्-'नवै भावाः [३०६ ख] (भावस्वभावाः) पर्यनुयोगमहन्ति' इति ।
भवतु तर्हि अर्वाग्भागोऽन्यथाऽनुपपत्तेरेव परभागस्य हेतुरिति चेत् ; अत्राह-परभाग इत्यादि ।
[ परभागोऽविनाभावमर्वाग्भागस्य कल्पयन् ।
स्वभावं कार्यहेतुञ्च तत्रान्तर्भावयेन्न किम् ॥३॥ तदवाग्भागस्य परभागाविनाभावस्वभावं कल्पयता धूमस्यापि पावकाविनाभावस्वभावादेव तत्र गमकत्वं प्रतिपत्तुयुक्त किं तदुत्पत्त्या ? तस्यां च सर्वथा गम्यगमकभावः सर्वथा जन्यजनकभावात् । भावानामंशेन जन्यजनकभावः प्रसज्येत ।]
परभागोऽविनाभावम् अन्यथानुपपत्तिलक्षणं कल्पयन् वादी । कस्य ? अर्वा- १० ग्भागस्य । किं कुर्यात् ? इत्यत्राह-स्वभावं कार्यहेतुं च तत्र अन्यथानुपपत्तौ अन्तर्भावयेत् न किम् ? अन्तर्भावयेदेव ।
कारिकां व्याख्यातुमाह-तदर्वाग्भागस्य इत्यादि । तस्य चन्द्रादयो (देयः) अर्वाग्भागः तस्य परभागाविनाभावस्वभाव (वं) तदव्यभिचारिस्वरूपं कल्पयता न केवलमस्यैव अपि तु धूमस्यापि पावकाविनाभावस्वभावादे [व] तत्र पावके गमकत्वं प्रतिपत्तुयुक्तम् इति । १५ ततः किम् ? इत्याह-किं न किञ्चित् तस्मात् पावकात् उत्पत्त्या धूमस्य इति सम्बन्धः । अथ तदुत्पत्त्यैव धूमस्य तत्र' गमकत्वम् ; इत्यत्राह-सा च (तस्यां च) तदुत्पत्तावेव गमकत्वे (त्वम्) अभ्युपगम्यमानायां सर्वथा सर्वेण प्रकारेण गम्यगमकभावः पावकधूमयोः ‘स्यात्' इत्यध्याहारः। यथा पावको दाहपाकादिकारिणा सामान्यप्रकारेण गम्यः तथा सजातीयविजातीयव्यावृत्तासाधारणेन देशकालाकारनियतेनापि स्यात् इति प्रत्यक्षवत् स्वलक्षणविषयता अनुमितेः इति नातो २० विशेषः । अवैशद्याद् विशेषः ; इत्यपि वार्तम् ; विशेषविषयत्वे तदयोगात् , परस्य तथाभ्युपगमाभावात् । कथमेवं सति विषयसंप्लवात प्रमेयद्वैविध्यात् प्रमाणद्वैविध्यमिति चेत् ; अयमपरोऽस्य दोषोऽस्तु ।
यत्पुनरेतदुक्तम्-*"तदविनाभाव (वात्) धूमविशेषावसाय इष्यते एव सर्वथा गम्योऽग्निः कुङ कुमचन्दनागुरु [३०७क] जनितधूमावधारणे ततः तत्प्रतिपत्तिदर्शनात्” २५ इति; तदनेन निरस्तम् ; तत्रापि कुङ्कुमादिसामान्यधर्मानुमितेः, इतरथा अन्त्यविशेषविषयत्वाद् अनुमितेः ततस्तत्रं सन्देहः कुतः ? विशेषानुमाने अन्वयाभावश्च चिन्त्यः । निरूपयिष्यते चेदमनन्तरम् । तथा धूमः सर्वथा गमक इति विशेषधर्मेण च (णेव) कण्ठाक्षविकारकारिणा सामान्यधर्मेणापि सत्त्वादिना स्यादिति धूमे संशयादिभावेऽपि सत्त्वादिविनिश्चयं (ये) ततोऽग्निप्रतिपत्तिरस्तु, ततः सन्दिग्धाद्यसिद्धताकीर्तनमसारमिति मन्यते ।
३० (१) पावके । (२) प्रत्यक्षात् । (३) बौद्धस्य । (४) एकस्मिन् स्वलक्षणविशेषे द्वयोः प्रमाणयोः प्रवर्तनात् । (५) चन्दनागुरुवह्निप्रतीतिदर्शनात् । (६) विशेषे ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org