________________
सिद्धिविनिश्चयटीकायाम्
[ ६ हेतुलक्षणसिद्धि:
स्यान्मतम्-पावकस्य सामान्यधर्मा एव जनकाः, ततः तैरेव गम्यः, धूमस्य विशेषधर्मा एव जन्या इति तैरेवं गमक इति चेत्; अत्राह - सर्वथा सर्वप्रकारेण [ जन्य ] जनकभावात् । अस्यानभ्युपगमे दोषमाह— भावानाम् इत्यादि । बहुवचनं सर्वथा अर्थपरिग्रहार्थम्, अंशेन अवयवेन जन्यजनकभाव: प्रसज्येत यथा पावकः सामान्यधर्मैः न विशेषधर्मैर्जनको धूमो ५ विशेषधर्मैर्न सामान्यधर्मैः जन्यः तथा सर्वे भावा इति । तत्र ( तन्न ) ग्राह्यग्राहकभावोऽपि तन्निबन्धनो ज्ञानैव (?) इति न युक्तमेतत् -*" एकस्यार्थस्वभावस्य " [प्र० वा० ३।४२ ] इत्यादि । यदि मतं सर्वथा जन्यजनकभावः सर्वथा [ गम्य ] गमकभावश्च इष्यते, एवं तज्जन्यविशेषावसाय इति; तत्राह - तज्जन्यविशेष इत्यादि ।
१०
૩૮૨
तादात्म्याविशेषेऽपि व्याप्यस्यैव गमकत्वं कथयन् एकलक्षणमेव समर्थयते पक्षधर्मत्वाद्यनपेक्षणात् । ]
सधूमगतोऽवान्तरो भेदोऽयं जन्यो यस्य स तथोक्तः, स चासौ विशेषश्च पावकगतो भेदः । कः ? न कश्चिदभिमतः स्वयं सौगतेन 'गम्यः' इति सम्बन्धः । किंभूतः ? १५ इत्याह- परो विद्यमानः [ ३०७ख] परो विशेषो यस्माद् इत्यपरोऽसाधारण इत्यर्थः । किं सर्वथा नाभिमतः ? इत्यत्राह - अन्यत्र अन्यथाऽनुपपत्तेः अन्यथानुपपत्तिमन्तरेण तस्यास्तु अभिमत एव, निदर्शनमन्तरेण तद्गम्यत्वोपगमात् ।
२५
[ तज्जन्यविशेषः कः स्वयमभिमतोऽपरः । सैवाऽन्यथानुपपत्तेः अन्यत्राभिमतेऽपि [च] ॥४॥
इदमपरं व्याख्यानम् - तेन अग्निना जन्यते इति तज्जन्यः स चासौ धूमत्वविशेषणः सत्त्वादिः धूमगतो विशेषश्च तद्विशेषः कोऽपरोऽन्यः अभिमतः स्वयं सौगतेन । अन्यत्र २० अन्यथानुपपत्तेः सैव अभिमतेऽपि । तथाहि - धूमे धर्मिणि धूमत्ववत् सत्त्वादेरपि पावककार्यत्वाऽविशेषेऽपि धूमत्वमेव तदन्यथानुपपत्त्या गमकं नेर्तेरदिति निरस्ता तदुत्पत्तिः ।
तादात्म्यं दूषयन्नाह–तादात्म्याविशेषेऽपि । व्याप्यव्यापकयोः इत्यपेक्ष (क्ष्य ) म् । व्याप्यस्यैव सत्त्वादेर्न व्यापकस्य अनित्यत्वादेः गमक [त्वं] कथयन् पर एकलक्षणमेव समर्थयते पक्षधर्मत्वाद्यपेक्षणाया (द्यनपेक्षणात् ) आदिशब्देन तदंशव्याप्तिग्रहणम् ।
ननु साधर्म्यवैधर्म्यदृष्टान्तयोरन्यतराभावे न हेतुः इति चेत् ; अत्राह - तद् इत्यादि । [ तत्सिद्ध्यसिद्धयोः सत्योः बहिर्व्याप्तेर साधनात् । साधनं सकलव्याप्तेरुभयदोषानतिक्रमात् ॥५॥ ]
तस्याः अन्तर्व्याप्तेः सिद्धिश्च ज्ञप्तिः आत्मलाभो वा असिद्धिश्च विपर्ययः तयोः सत्योः बहिर्व्याप्तेः पक्षादन्यत्र व्याप्तिः बहिर्व्याप्तिः, तयोः सकाशाद् असाधनात् साधना
(१) विशेषधर्मैरेव । (२) 'प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्यात् यः प्रमाणैः परीक्ष्यते ॥' इति शेषः । (३) अन्यथानुपपत्तेस्तु । (४) सत्त्वादि । (५) बौद्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org