________________
६।६ ]
हेतुभेदाः
३८३
भावात्, ताम्' आश्रित्य [न] किञ्चित् साधनं भवतीति । यदि वा, तस्याः साध्यभावात्' । अथवा, तस्याः असाधनत्वात् इति सा न साधनम् इति यावत् । तर्हि सकलव्याप्तेः हेतु:, इत्यत्राह-सकल इत्यादि । पक्षे अन्यत्र च व्याप्तिः सकलव्याप्तिः तस्या उभयदोषानतिक्रमात् तदेव समर्थयत इति [ ३०८ ] । तथाहि - नान्तरेण अन्तर्व्याप्ति [म] सकलव्याप्तिः, स (सा) चेत् सिद्धा कुतश्चित् ; किमपरेण ? न चेत्; का सकलव्याप्तिः ? तथा विना बहिर्व्या - ५ प्रचापि न सी युक्ता, तात्तरया (?) ।
सत्यम्,
अर्वाग्भागदर्शनात् चन्द्रादेः परभागोऽनुमीयते स तु नान्यथानुपपत्तेरपि तु एकसामग्र्यधीनतया इति; एतत्कदर्थयन्नाह - चित्तभ्रान्ति इत्यादि ।
[चित्तभ्रान्तिस्वसंवियोस्तादात्म्यं चेद्विलक्षणैः । दृष्टैर्भाव्यं स्वभावैः स्वैर्नश्वराणामनश्वरैः ॥६॥
भ्रान्तिः तथा च । ]
भ्रान्तिश्च अतस्मिन् तद्ग्रहः । उपलक्षणमेतत् तेन विकल्पसंशयविपर्यासादीनां ग्रहणम्, स्वसंवित्तिश्च स्वसंवेदनाध्यक्षम् । एतदपि उपलक्षणमिति निर्विकल्पकत्व प्रत्यक्षादीनाम् । चित्तस्य ज्ञानस्य भ्रान्तिस्वसंवित्ती तयोः तादात्म्यं चेद् विलक्षणैः विसदृशैः दृष्टैः इन्द्रियगोचरैः भाव्यम् भवितव्यम् । केषां कैः इत्याह- नश्वराणाम् प्रतिक्षणभङ्गुराणाम् १५ अनश्वरैः स्थितैः । किंभूतैः ? स्वभावैः स्वरूपैः । किं सर्वैः ? न इत्याह-स्वैः आत्मीयैः न बुद्ध्यन्तरगतैः ।
1
कारिकां व्याचष्टे - भ्रान्ति इत्यादिना । व्याख्यातमेतत् प्रथमप्रस्तावे । यद्यपि च भ्रान्तिग्रहेण विपर्यास उक्तः तथापि द्वयोः उपादानं बाह्येतरविभ्रमप्रतिपादनार्थम् ।
एवं सति किं लब्धम् ? इत्याह तथा च इत्यादि । ते च (तथा च तेन च ) नश्वराणाम् २० अनश्वरस्वभावप्रकारेण च ।
[यथानुदर्शनं तत्त्वप्रतिपत्तिर्न लङ्घयते ।
तादात्म्यमती सूक्ष्माणां भिन्नानां सुपरीक्षितैः ॥७॥
स्थूलैरभिन्नैः स्वभावैः स्वैः चाक्षुषाणामचाक्षुषैः । अप्यन्यथानुपपन्नैः यथा लोके प्रतीयते ॥८॥ स्कन्धोऽवगृर्ध्वपरमध्यभागात्मैकः कथञ्चित् । अनुमेयः केनचित्कश्चिद् बुधैः रूपरसादिवत् ॥ ९ ॥
१०
Jain Education International
प्रत्यनीकस्वभावतादात्म्यमन्यथानुपपत्त्या क्वचित् सिद्धमुपयन् एकान्त [ भिन्न
विषयं ] प्रतीतिविरुद्धमविकल्पं निर्विषयं चानुमानं परिकल्प्य ततस्तत्त्वसिद्धिं व्यवस्थापयतीति किमतः परमयुक्तम् अन्यथानुपपत्तेरतिक्रमात् । ततोऽपरः सहभाविनां रूपादिपर- ३० (१) बहिर्व्याप्तिम् (२) असिद्धत्वादित्यर्थः । (३) सिध्येत् । ( ४ ) सकलव्याप्तिः ।
For Personal & Private Use Only
२५
www.jainelibrary.org