________________
३८४
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः भागादीनाम् रसार्वाग्भागादिभिः प्रक्लप्तः प्रतिबन्धनियमश्च स्वमतघाती, उपयुक्तरसानुमेयोपादानशक्तितः रूपसिद्धौ प्रतीति स्वलिङ्गसंख्याञ्च लङ्घयेत् । उपयुक्ताद्रसात् रूपाद्यत्पत्तौ सहकारित्वं तदुपादानस्वभावं प्रतिपन्नवान् , पुनः तत्काय रूपादिकं प्रत्येति । स्वोपादानस्य शक्तिप्रवृत्त्या विना न रसोत्पत्तिः सैव रूपादिकारणमिति अतीतैककालानां ५ गतिर्नानागतानां व्यभिचारात इति कोऽयं प्रतिपत्तिक्रमः तथैव व्यवहाराभावात् । तथा
च कारणात् कार्यानुमानम् । सहभाविनश्च रसात् पारम्पर्येण रूपाद्यनुमानं न केवलं प्रतीतिप्रसिद्धिमुपरुणद्धि किन्तु अनुमीयमानं प्रतिबन्धनियमं च ।]
___ यथानुदर्शनं दर्शनानतिक्रमेण । नु वितर्के । तत्त्वप्रतिपत्तिन लध्यते न निराक्रियते । किंभूता सा? इत्यत्राह-तादात्म्यमती वि (अपि) शब्दोऽत्र द्रष्टव्यः । केषाम् ? १० इत्यत्राह-सूक्ष्माणाम् । किंभूतानाम् ? भिन्नानाम् अन्योऽन्यव्यावृत्तानाम् । कैः ? इत्य
त्राह-स्थूलैः। किंभूतैः ? अभिन्नः, अनेकावयवसाधारणैः । पुनरपि किंभूतैः ? सुपरीक्षितः कथं सुपरीक्षकैः ? [३२८ख (क्षितैः ?) इत्याह-अन्यथानुपपन्नः इति । स्वैः आत्मीयैः। न कैवलं तैः तेषामेव तत् किन्तु चाक्षुषाणाम् , उपलक्षणमेतत् सत्त्वं (सर्वे)न्द्रियाणाम् ।
अचाक्षुषैः एतदप्युपलक्षणम्' । किंभूतैः ? स्वप्तावैः (स्वभावैः) अपि शब्दः 'चाक्षुषा१५ णाम्' इत्यत्र पति (पठि) तव्यः । यथा लोके प्रतीयते इत्यनेन च प्रतीतिसिद्धञ्चानेकान्तं दर्शयति । प्रकृते कोऽस्य उपयोग इति चेत् ? अत्राह-स्कन्धोऽर्वाग्भागेत्यादि । स्कन्धः चन्द्रादिः अवयवी । किंभूतः ? अर्वागादीनां द्वन्द्वः, पुनः भागशब्देन कर्मधारयः, ते . आत्मानो यस्य स चासौ एकश्च तदात्मैको यथा लोके प्रतीयते । तत्र स्कन्धे केनचिद् अर्वाग्भागेन कश्चिद् भागो मध्यादिः अनुमेयः स्यात् । कैः ? वुधैः परीक्षकैः । निदर्शन२० माह-रसाद रूपादिवद् इति । यथा कथञ्चित्तादात्म्यात् रसाद् रूपादिरनुमेयः, नैकसामग्र्यधीनत्वेन तत्रां (तथा) तत्र केनचिद् भागेन कश्चिद् भागोऽनुमीयते इति निदर्शनार्थः ।
कारिकात्रयं सुगमत्वाद् अव्याख्याय निदर्शनं समर्थयितुकामः [आह] प्रत्यनीक इत्यादि |त्यादि । प्रत्यनीको अन्योऽन्यविरुद्धौ यो स्वभावौ विकल्पाऽविकल्पी भ्रान्ति-प्रत्यक्षौ
विपर्ययप्रत्यक्षे (क्षौ) संशयप्रत्यक्षौ तयोः तादात्म्यम् एकत्वम् क्वचिद् विज्ञानादौ सिद्धं प्रमाण२५ निश्चितम् उपपन्नम् (उपयन्) अभ्युपगच्छन् । कया ? इत्यत्राह-अन्यथा इत्यादि । अन्यथा
अन्येन तादात्म्याभावप्रकारेण तयोः स्वभावयोः या अनुपपत्तिः तया इति । तथाहि-निर्विकल्पस्वभावाद् विकल्पस्वभावाद्वि (वस्य) भेदैकान्ते कुतः तद्वदनं यतः तत्कल्पनम् ? [३०९क] अज्ञातकल्पनें अतिप्रसङ्गात् । तथा च *"अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना"
न्यायबि०१।५] यवि (इति) कल्पनयापि न लभ्यत इति दूरं संवृतिवार्ता । स्वत इति चेत् ; ३० तर्हि विकल्पस्वभावोऽविकल्प इति तदवस्था (स्थः) प्रसङ्गः *"सर्वचित्तचैतसिकानाम्"न्याय
(१) सर्वेन्द्रियगोचराणाम् । (२) अस्ति मातुलिङ्ग रूपं रसात् इत्यादि । (३) 'प्रत्यादि' इति निरर्थकमत्र । (४) विकल्पस्वरूपसंवेदनम् । (५) "सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनम्"-न्यायबि० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org