________________
६।९ ]
अनुमानस्य वस्तुविषयत्वम्
३८५
1
बि० १।१०] इत्यादि कथम् ? अन्यथा तत्रापि अपरतत्स्वभावकल्पनम् उक्तदोषम् अनवस्थामन्वाकर्षति । यदि पुनः अविकल्पस्वभावाद् अन्येन अन्यवेदनम् इति निराकारदर्शनम्, असतश्च ततस्तस्य वेदनमिति स्वपरयोः प्रत्यनीकयोः तादात्म्यम्; अत्रापि भेदैकान्ते मे (?) प्रकृतमनुवर्त्तत इति चक्रकम् । एतेन शेषमपि चिन्त्यम् । ततस्तयोः तादात्म्यमन्वेष्यम् । तदुपयन् व्यवस्थापयति इति किमतः परमयुक्तम् । इदमेव अयुक्तमिति । किंभूतं किंभूत्वा कुतः ५ किं व्यवस्थापयति ? इत्यत्राह - अविकल्पं परिकल्प्य । किम् ? इत्याह - एकान्त इत्यादि । किंभूतम् ? प्रतीतिविरुद्धम् । नहि एकैकपरमाणुपर्यवसितवपुः अध्यक्षं प्रतीत्यारूढं लक्ष्यते दृश्यानुपलब्धिः (ब्धेः ) अभावप्रसङ्गात् एकज्ञानसंसर्गिपदार्थद्वयाभावात् । कथमेवं विभ्रमतोऽपि स्थूलदीर्घादिप्रतीतिः, यतः पर्वतादिव्यवस्था इति चेत् ? अयमपरो दोषोऽस्तु ।
यदि पुनः अनेकपरमाणुविषयं साकारमेकं दर्शनम् ; किं स्यात् ? उक्तमत्र प्रत्यनीक १० इत्यादि । निर्विषय च अनुमानं परिकल्प्य । अत्रापि 'प्रतीतिविरुद्धम्' इत्यनुवर्त्तते । कचित् प्रत्यनीकस्वभावयोः प्रमाणसिद्धतादात्म्योपगमे नित्यत्वानित्यत्व- कृतकत्व - सत्त्वादीनां प्रत्यनीकस्वभावनम् शब्दे तादात्म्यसिद्धेः प्रतीतिविरुद्धं निर्विषयं तदिति मन्यते । ततोऽविकल्पात् [३०९ख] प्रत्यक्षात् तद्विरुद्धा [त्] निर्विषया [च] अनुमानात् तत्त्वसिद्धिम् इति । कुत इदमेव अयुक्तम् ? इत्यत्राह-अन्यथा इत्यादि । यतः अन्यथानुपपत्तेः क्वचित् प्रत्यनीकस्वभावयोः १५ तादात्म्यमभ्युपैति सौगतः, तस्या एव ततः तत्त्वसिद्धिं व्यवस्थापयतोऽतिक्रमात् ततो न क्वचित् तयोः तादात्म्यमिति, इदमेव अयुक्तमिति भावः ।
"
इदमत्र तात्पर्यम्–रसादिक्षणिकपरमाणूनां विवेकैकान्ते विकल्पाभावात् कुतो निर्विषयमप्यनुमानम्, यतः तत्त्वव्यवस्था ? तदस्ति चेत्; विकल्पाविकल्पप्रत्यनीकस्वभावयोः क्वचित् तादात्म्यं सिद्धम्, रसादीनामपि तदस्ति इति न दृष्टान्तासिद्धिः ।
यस्तु मन्यते - अर्वाग्भागा [त्] संयोगिनः परभाग [ग] रसाद् एकार्थसमवायिनो रूपादिः अनुमीयते, न तादात्म्याद् अन्यतो वेति सोऽप्यनेन निरस्तः; शक्यं हि वक्तुं प्रत्यनी - कस्वभावयोः सामर्थ्येतरयोः अन्ययोर्वा तादात्म्यम् अन्यथानुपपत्त्या क्वचित् तादात्म्यादौ (तादात्म्यम् आत्मादौ). सिद्धम् उपयन् वैशेषिकादिः प्रतीतिविरुद्धम् एकान्तभिन्नस्वभावद्रव्यगुणकर्माक्षणक्षयप्रध्वंस [म]विकल्पं निरंशैकार्थम् नियतं परिकल्प्य तत्पूर्वकत्वेन निर्विषयम् २५ अनुमानं चेति । शेषं पूर्ववदिति ।
२०
ननु यद्यपि अर्वाग्भाग- परभागयोः रूपादिरसाद्योः तादात्म्यं तथापि न तदन्यथानुपपत्त्या गम्यगमकभावः, अपि तु पूर्वविशिष्टकारणस्य अनुमानेन तत एव तादात्म्यस्यापि भवाद चेत्; अत्राह-ततोऽपरः इत्यादि । ततः तादात्म्याऽन्यथानुपपत्तेः अपरः अन्यः स्वयम् आत्मना सौगतेन न लोकेन प्रमाणेन वा [ ३१०ख] प्रक्लृप्तो रचितः । अनेन परस्य तत्र ३० (१) 'सूक्तं स्यात्' इति सम्बन्धः । (२) 'म' इति निरर्थकमत्र । (३) प्रत्यनीकस्वभावयोः विकल्पाविकल्पयोः । (४) अन्यथानुपपत्तेरेव । (५) एकस्मिन् द्रव्ये तादात्म्यमिति । (६) वैशेषिकः ।
४९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org