________________
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः स्वातन्त्र्यं दर्शयति । कः ? इत्याह-प्रतिबन्धनियमः। च शब्दो न केवलं प्रत्यक्षादिकं प्रस्तावाद् अर्वाग्भागपरभागयोः रूपादिरसाद्योः इति गम्यते । यदि वा, ततः साक्षात् तादात्म्यतदुत्पत्तिप्रतिबन्धाद् अपरोऽन्य एकसामग्रयधीनतालक्षण इति व्याख्येयम् । कुतः स प्रक्लप्तः ? इत्याहसहभाविनाम् अनुमानप्रसङ्गात् । केषाम् ? इत्याह-रूपादिपरभागादीनाम् । कैः ? इत्य५ त्राह-रस-अर्वाग्भागादिभिः । स किंभूतः ? इत्यत्राह-स्वमतघाती। स्व इत्यनेन सौगतपरामर्शः तस्य मतघाती । कुतः ? इत्यत्राह-उपयुक्तरसेन इत्यादि । उपयुक्तेन आस्वादितेन_ रसेन अनुमेया या उपादानस्य उपयुक्ततत्सहभाविरसरूपपरिणामिकारणस्य शक्तिः सामर्थ्य रसस्य रेसोत्पत्तौ उपादानशक्तिः रूपोत्पत्तौ सहकारिशक्तिः रूपस्यापि रूपोत्पत्तौ उपादानशक्तिः
अन्यत्र सहकारिशक्तिः ततः रूपसिद्धौ रूपानुमितौ क्रियमाणायां प्रतीतिं लोकप्रसिद्धिं लङ्घयेत् १० सौगतः । नहि पूर्वम् उपयुक्ताद् रसात् सामग्रीविशेषानुमानम् [ततो रूपानुमानम्] इति लोके
परम्पराप्रतीतिरस्ति; तर्न उपयुक्तरसादेव रूपानुमितिप्रतीतेः । तथापि तत्कल्पने 'शक्यं हि बोधुम् स्वभावहेतुर्भावम्' इत्यादिना दूषणं निरूपयिष्यते । अथ प्रतीतिलचने कथं स स्वमतघाती इति चेत् ? उक्तमत्र दूषणं निरूपयिष्यते इति ।
किश्च लोकानुमानस्य मननं यच्च कीर्तितं की तिं ना तन्व (तत्र) किं तस्य प्रतीति१५ विलंघमेनतः (विलङ्घनेन ? ततः) तत्सिद्धौ दूषणान्तरमाह-[३१०ख] स्वलिङ्गसंख्यां कार्यस्वभावानुपलब्धिगोचरां च लवयेत् ।
___ एवं कारणलिङ्गोपगमात् 'रसाद् उपयुक्ताद्' इत्यादिना कारिकां विवृणोति-रसात् । किं भूतात् ? उपयुक्तात् प्रतिपन्नवान् सौगतो लोको वा । किम् ? इत्याह-सहकारित्वम् । क ?
इत्याह-रूपाद्युत्पत्तौ । किंस्वभावम् ? इत्याह-तदुपादानस्वभावम् । तस्य उपयुक्तरसस्य यद् २१ उपादानं तत्स्वभावम् , पुनः पश्चात् तत्कार्यम् तस्यं तत्र तत्स्वभावस्य सहकारित्वस्य कार्यम् ।
तदेवाह-रूपादिकम् । तत् किं करोति ? इत्याह-प्रत्येति । कुतः ? इत्याह-तं (१) शक्तीत्यादि । शक्तेः प्रवृत्तिः कार्ये व्यापारः तया विना न रसोत्पत्तिः उपयुक्त-रसात्मलाभः । कस्य तया विना ? इत्याह-स्वोपादानस्य उपयुक्तरसोपादानस्य किन्तु तत्प्रवृत्त्या तदुत्पत्तिः। ततः किम् ? इत्याह-सैव तस्य शक्तिप्रवृत्तिरेव रूपादिकारणम् इति हेतोः अतीतैककालानां गतिः २५ प्रतीतिः नानागतानाम् । कुतः ? व्यभिचारात् , इति शब्दः परपक्षसमाप्तौ । तत्र दूषणमाह'कोऽयम्' इत्यादि । पूर्वम् उपयुक्तरसात् तदुपादानरसस्य रूपसहकारिणः प्रतिपत्तिः पुनः ततो रूपस्य इति प्रतिपत्तिक्रमोऽयं परेण उच्यमानः कः कुत्सित इत्यर्थः । कुतः ? इत्याह-तथैव व्यवहाराभावात् । यद्वा, 'अतीतैककालानां गतिः नानागतानाम्' इति" प्रतिपत्तेः क्रमः
(१) उपयुक्तस्य रसस्य तत्सहभाविनो रूपस्य च परिणामिकारणस्य उत्तररसात्मकत्वेन उत्तररूपात्मकत्वेन च स्वयं परिणामिनः । (२) उत्तररसोत्पत्तौ । (३) उत्तररसोत्पत्तौ । (४).लोके । (५) धर्मकीर्तिना । (६) रसस्य । (७) 'त' इति निरर्थकमत्र । (6) "शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम् । इत्यतीतैककालानां गतिस्तत्कार्यलिङ्गजा ॥ ....... (९) अतीतैककालानां गतिर्नानागतानां व्यभिचारात्"-प्र० वा० स्ववृ० १।१२। (१०) पूर्वरसस्य । (११) प्र. वा. स्ववृ० १११२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org