________________
६।९ ]
अनुमानस्य वस्तुविषयत्वम्
३८७
परिपाटिः न्यायानतिलङ्घनम् कोऽयम् । कुतः ? इत्याह- तथैव इत्यादि । तथैव * "अतीतैककालानां गतिर्नानागतानाम् " [ प्र०वा० स्ववृ० १|१२] इत्यनेनैव प्रकारेण व्यवहाराभावाद् अन्यथापि [३११ क] व्यवहारात् सौगतस्य इति द्रष्टव्यम् । स्वयमेव 'उपयुक्तरसानुमितरसादिना तदपेक्षया ना (चा) नागतस्य रूपादे [र] व्यभिचारगतेः' इत्युपगमात् । दूषणान्तरमाह-तथा च तेनैव परपरिकल्पितप्रकारेण कारणात् कार्यानुमानम् ।
यस्तु 'मन्यते ' - 'भावि कारणम्' इति ; अस्मिन् दर्शने कार्या[त् कारणा]नुमानम्, न कारणात् कार्यानुमानम् इति ; स की र्तेः अनन्तरवचनं कृत्यति तस्यापि उपयुक्तरसेन पूर्वरसप्रतिपत्तिः कारणात् कार्यानुमानं स्यात् । तदनभ्युपगमे " एकसामग्र्यधीनस्य" [प्र० वा० ३।१८ ] " इत्यादि निरर्थकम् । अन्योऽन्यहेतुफलभावे अन्योऽन्यसंश्रयः । एवमनेन 'प्रतीतिं स्वलिङ्गसंख्यां च लङ्घयेत्' इति व्याख्यातम् ।
१०
अधुना साः (कृतनाशा) कृताभ्यागमदोषं दर्शयन्नाह[ - राह [ सह ] भाविनश्व इत्यादि । अनुमीयमानरूपादिना सह भवनशीलाद् रसात् समकालरूपाद्यनुमानम् । कथम् ? इत्याहपारम्पर्येण वर्णितप्रकारेण । तत् किं करोति ? इत्याह- न केवलं प्रतीतिप्रसिद्धिम् उपरुणद्धि निराकरोति । अनेन कृतनाशो दर्शितः, किन्तु प्रतिबन्धस्य तादात्म्यतदुत्पत्तिलक्षणस्य नियमं च विरुणद्धि । कथम् ? अनुमीयमानम् रूपेण सह प्राक्तनरसादेः तादात्म्याद्यभावेऽपि प्रति - १५ बन्धान्तराद् गमकत्ववर्णनात् । एतेन अकृताभ्युपगमः कथितः ।
स्यान्मतम् - न तया परमार्थतः पूर्वम् उत्तरस्य उत्तरं वा पूर्वस्य कारणं लिङ्गं च इष्यते येनायम् अन्योऽन्यसंश्रयादिदोषः स्यात्, अपि तु व्यवहारिणा केवलं तन्मतानुसारिणा अनुमीयते, तदेव अनूद्यते । तत्रापरः प्राह - स तर्हि साक्षाद् रसाद् रूपप्रतिपत्तिं [ ३११ ख] कुर्वन् किमिति प्रतिक्षिप्तः ? तत्प्रतिबन्धाभावादिति चेत्; पूर्वोत्तरयोः कः प्रतिबन्धः ? तदुत्पत्तिरिति २० चेत् ; प्रमाणतः सिद्धा, किमुच्यते व्यवहारिणेति ? प्रमाणसिद्ध [स्योभ] योरपि अभ्युपगमाई - त्वात्, अन्यथा त्परतः प्रामाणिकत्वाद्वो येन ( परस्यापि न प्रामाणिकत्वम्) । व्यवहार्यभ्युपगमात् चेत् ; अत एव प्रतिबन्धान्तरमस्तु । न च अप्रमाणाभ्युपगमसिद्धे द्वेवैस स (द्ध : अर्धवैशस) न्यायो ' न्यायानुसारिणां युक्तः । तदपि अस्तु इति चेत्; अत्राह - सहभाविनश्च इत्यादि । सहभाविन एव रसात् समकालरूपाद्यनुमानं न केवलं पारम्पर्येण या प्रीति (प्रतीतिः) सौगताभ्युपगता तामुपरुणद्धि २५ किन्तु प्रतिबन्धनियमं च उपरुणद्धि इत्यनुवर्त्तते । सहभाविनोः प्रतिबन्धान्तरसिद्ध : नीलद्विज्ञानवदिति ।
तदेवं दृष्टान्ते निराकुलीकृते पर आह- 'यदुक्तम् - भ्रान्तिप्रत्यक्षयोः तादात्म्येन भवितव्यम्'
(१) एकसामयन्तर्गत पूर्व रस -पूर्वरूपादिना । पूर्वरूपं हि स्वसजातीयं उत्तररूपमुत्पाद्यैव उत्तररसोत्पादक सामग्र्यामनुप्रविशति इति आस्वाद्यमानरसात् सामभ्यनुमानं यद्यपि कार्यात् कारणानुमानं तथापि एकसामग्यन्तर्गतपूर्व रूपात् उत्तररूपानुमानं कारणात् कार्यानुमानमेव इति भावः । (२) प्रज्ञाकरः । (३) प्रज्ञाकरः । ( ४ ) धर्म कीर्तेः । ( ५ ) " एकसामध्यधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ " - प्र०वा० । (६) एकार्थतादात्म्यात् । (७) तर्हि तदुत्पत्तिः । (८) द्रष्टव्यम् - पृ० २६३ टि० ११ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org