________________
[ स्वं खण्डशइचेत्संवित्तिः बहिर्वेद्यं न किं तथा । सामग्रीभेदाद् भिद्येरन् यतः पुद्गलसंविदः ॥१०॥ पुद्गलस्यैकस्यैव चक्षुरादि [सामग्रीभेदात् ] रूपादिज्ञानप्रतिभासभेदः विज्ञानस्येव । तद्द्भ्रान्तिकल्पनायामुभयाकारानतिक्रमात् तदवस्थं चोद्यम् ॥]
स्वम् आत्मानं खण्डशः सचेतनादिरूपेण न विभ्रमाकारविवेकरूपेण सताऽपि भ्रान्तेरभावप्रसङ्गात् संवित्तिः विषयीकरोति वित्तिः बुद्धिश्चेद् यदि । तत्र दूषणम् बहिर्वेद्य' घटादि किन्न ' खण्डशः संवित्तिः' इति पदघटना | संवेते ( संवित्तेः ) तथैव प्रतीते: इति १० मन्यते । कथं खण्डशः स्यात् तत्संवित्तिः ? इत्यत्राह - सामग्री इत्यादि । यतो यस्मात् खण्डशः संवेदनाद् भिद्यरेन् भिन्नाः स्युः परस्परम् । काः ? इत्यत्राह - पुद्गलसंविदः [३१२ क] रूपरसगन्धस्पर्शात्मकघटादिबुद्धयः । कुतः ? इत्याह- सामग्रीभेदात् चक्षुरादिकारणकलापभेदात् । एकस्य तद्विषयत्वादिति भावः ।
३८८
सिद्धिविनिश्चयटीकायाम्
[ ६ हेतुलक्षणसिद्धिः
इति ; तन्न सारम् ; प्रत्यक्षाद् आत्मसंवेदनरूपाद् भ्रान्तेः चित्राकारनिर्भासरूपायाः विरुद्धधर्माध्यासेन भेदादिति चेत् ; अत्राह - स्वं स्वं खण्डशइचेद् इत्यादि ।
पूर्वार्धस्य सुगमत्वाद् व्याख्यानमकृत्वा परमर्थं व्याचष्टे - पुद्गलस्य रूपादिमयघटादेः १५ एकस्यैव स्वगुणपर्यायसाधारणात्मन एव न पैरकल्पितरूपादि-परमार्थैकान्तभिन्नअवयव-अवयविरूपस्य रूपादिज्ञानप्रतिभासभेदः केवलं न स्वरूपभेद इत्यर्थः । कुतः ? इत्याह- चक्षुरादि इत्यादि । तत्र दृष्टान्तमाह - विज्ञानस्यैव (स्येव ) इत्यादि ।
२०
२५
ननु च ग्राह्याकाराद् भिन्नं ज्ञानमाश्रित्य कारिका प्रकृत्ता ( प्रवृत्ता ) तत्कथमिदमुच्यते इति चेत्; न; एकस्य दृश्येतरसंभववद् बाह्याकारसंभवाविरोधाभिप्रायेण एवमभिधानात् ।
यदि मतम्-न ज्ञानस्य ग्राह्याद्याकाराद् भेदो नापि परमार्थतः तत्तदात्मकम् तदाकारस्य भ्रान्तस्य ततः तत्त्वान्यत्वाभ्या (भ्याम) निर्वचनीयत्वात् । तदुक्तम्
*" वस्तुन्येष विकल्पंविवेद ( कल्पः स्याद्विधेः ) वस्त्वनुरोधतः । " इति । *“मन्त्राद्युपप्लुताक्षाणाम्" [प्र० वा० २।३५५] इत्यादि ।
*"अविभागोऽपि" [प्र० वा० २।३५४] इत्यादि ति ( ) |
तत्राह-तद्भ्रान्तीत्यादि । तस्य ग्राह्यादिनिर्भासभेदवतो ज्ञानस्य भ्रान्तिकल्पनायां क्रियमाणायां उभयाकारानतिक्रमात् स्वपररूपापेक्षया अविभ्रमेतराकारानतिलङ्घनात् तदवस्थं चोद्यम् 'कथमेकम् अनेकात्मकम्' इति ?
अथ पररूपवत् स्वरूपेऽपि तद्भान्तमिष्यते; तत्राह - यथास्वम् इत्यादि ।
(१) 'स्व' इति द्विलिखितम् । (२) रूपादयः एव एकान्तभिन्नाः परमार्था इति बौद्धकल्पितम्, अवयव अवयवन एकान्तभिन्नाविति योगैः परिकल्पितम् । (३) उद्घृतोऽयम् - न्यायवि० वि० द्वि० पृ० १४ । (४)‘यथा मृच्छकलादयः । अन्यथैवावभासन्ते तद्व परहिता अपि ।' इति शेषः । (५) “अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकंवित्तिभेदवानिव लक्ष्यते ॥" (६) स्वरूपेऽविभ्रमाकारः पररूपे च विभ्रमाकारः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org