________________
३८९
६।११-१२]
अनुमानस्य वस्तुविषयत्वम् [यथास्वं न चेबुद्धेः स्वसंविदन्यथा पुनः ।
खाकारविभ्रमात् सिध्येद् भ्रान्तिरप्यनुमानधीः ॥११॥ प्रत्यक्षानुमानयोः स्वभावविभ्रमात् अनेकान्तमन्तरेण प्रत्यक्षस्यापि स्वार्थसंवेदनानुपपत्तेः सुव्यवस्थितं तत्वम् !]
बुद्धः न चेद् यदि नास्ति । किम् ? इत्याह-स्वसंवित् स्वरूपवेदनम् । किं [३१२ख] ५ सर्वथा ? न इत्याह-यथास्वं * "सर्वचित्तचैत्तानाम् आत्मसंवेदनं प्रत्यक्षम्" [न्यायबि० १।१०] अविकल्पकं बुद्धः स्वरूपम् *"प्रभास्वरमिदं चित्तं प्रकृत्या" [प्र० वा० १।२१०] इत्यभिधानात् , तदनतिक्रमेण । अन्यथा पुनः विद्यते । कुतः ? इत्याह-स्वाकारविभ्रमात् बुद्धः स्व आत्मीय आकारः स्वप्रकाशता *"स्वयमेव (यं सैव) प्रकाशते" [प्र० वा० २।३२७] इति' तस्य तत्र वा विभ्रमात् । ततः किम् ? इत्याह-सिध्येत् स्वलक्षणबुद्धेः भ्रान्तिरूपम् । १० केन प्रमाणेन ? [न] केनचित् , स्वयं भ्रान्तात् प्रत्यक्षात् तदसिद्धेः बहिरर्थवत् । अनुमानेन इति चेत् ; अत्राह-भ्रान्तीत्यादि । अपिशब्दो भिन्नप्रक्रमः, अनुमानधीरपि भ्रान्तिः।
कारिकार्थं दर्शयन्नाह-प्रत्यक्ष इत्यादि । सुव्यवस्थितं तत्त्वम् सर्वं भ्रान्तत्वम(न्तं तत्त्वमु-) पहसनवचनमिदम् । स्वसंवेदनप्रत्यक्षमेव अभ्रान्तमिति चेत् ; अत्राह-अनेकान्तमन्तरेण इत्यादि । एवं मन्यते-तत् स्वसंवेदनप्रत्यक्षं 'नीलमहं वेद्मि' इति ग्राह्यग्राहकसंवेदनस्वभावम् , १५ ततोऽन्यद्वा स्यात् ? प्रथमपक्षे अनेकान्तमन्तरेण न केवलमनुमानस्य अपि तु प्रत्यक्षस्यापि स्वार्थसंवेदनानुपपत्तेः सुव्यवस्थितं तत्त्वम् स्वयमेव स्वस्य वा अर्थः इति । द्वितीये सुखनीलादौ का वार्ता ? भ्रान्तत्वमिति चेत् ; अन्यस्य तद्विपरीतस्य अदर्शनेनाऽसत्त्वात् । दर्शनेडपि तद्वदेव, ततः तदेव चोद्यम् 'प्रत्यक्षानुमानयोः स्वभावविभ्रमात् सुव्यवस्थितं तत्त्वम्' इति ।
____ स्यान्मतम्-तद् विभ्रमविवेकनिर्मत (ल) तया यद्यथा (यप्या)त्मानं न दर्शयति तथापि २० तच्चेतनदया (सञ्चेतनादितया) दर्शयति इतरस्य विभ्रमाभाव इति; तत्राह-सु(स्व)व्यक्त इत्यादि ।
[स्वव्यक्तसंवृतात्मानौ व्याप्नोत्येकं स्वलक्षणम् ।
यदि हेतुफलात्मानौ व्याप्नोत्येकं स्वलक्षणम् ॥१२॥ न बुद्धाह्यग्राहकाकारौ भ्रान्तावेव स्वयमेकान्तहानेः । तौ चेद् भ्रान्तौ किमभ्रान्तं .. यत् प्रत्यक्षं स्यात् ? तौ हि तदात्मानौ तव्यतिरेकेण एकान्तस्यानुपलब्धेः । कथञ्चि- २५ दुपलब्धौ सत्याञ्च तद्विवेकानुपलब्धौ उपलब्धस्यापि संवृतौ चेतःस्वलक्षणस्य सकृद् व्यक्तेतरस्वभावौ व्याप्नुवतः क्रमेण हेतुफलव्याप्तौ कः प्रतिबन्धः ?]
व्यक्तः [३१३ क] प्रत्यक्षः संविदेत बोधस्वभावः संवृतः तद्विपरीतो वेद्यवेदकाकारविवेक इत्येके 'स्वं खण्डशः चेत् संवेत्ति (संवित्तिः)' इत्यादि नानार्थमेतद् इत्यपरे ।
(१) “नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥"-प्र. वा.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org