________________
सिद्धिविनिश्चयटीकायाम्
[ ६ हेतुलक्षणसिद्धि:
वक्ष्यमाणलक्षणः । अपि शब्दः प्रत्येकमभिसम्बध्यते । धर्मोऽपि, अपि शब्दात् पक्षधर्मोऽपि अयं शंब्दे सत्त्वादिः शकटोदये' कृत्तिकोदयः प्रत्यक्षप्रतीयमानो हेतुतां गमकत्वेवेतिं (कत्वम् एति) तथा तदंशेन व्याप्तोऽपि । अत्रापि अपिशब्दात् तेनाव्याप्तोऽपि ताम् एति । त [दे] - वोदाहरणम् - अनित्यः शब्दः सत्त्वात् घटवत् श्रावणत्वाद्वा इति । तदंशपदम् अत्रैव वृत्तौ निरूप५ य । [ ३००ख] किंभूतस्ताम् एति ? इत्यत्राह - अन्यथा साध्याभावप्रकारेण अनुपपन्नः । किं सर्वोऽपि स तथाविधः तामेति ? न; इत्याह- लक्ष्यते निश्चीयते । अन्यथानुपपन्नोऽयं चेत् यदि । केन ? इत्याह - तर्केण । अस्यानभ्युपगमे दोषमाह - न चेदम् (चेत्) अन्यथानुपपन्नो न हेतुतामेति, अन्यथा स श्यामः तत्पुत्रत्वात् इत्यादिरपि आगच्छेत् । तथा परमार्थतोऽन्यथानुपपन्नोऽपि न चेत् तर्केण अन्यथानुपपन्नोऽयम् इति न लक्ष्यते हेतु१० ताम् एति इतरथा क्वचिद् धूमदर्शनात् नालिकेरीपादागतस्य अग्निप्रतिपत्तिः स्यात् । अथवा तर्केण लक्ष्यते चेद् अन्यथानुपपन्नोऽयं नैनु हेतुतामेति किन्तु त्येवेति ।
कारिकां व्याचष्टे स्वार्थ इत्यादिना | स्वार्थं यद् अनुमानं तत्र धर्मी पक्षः । किंभूतः ? जिज्ञासितविशेषः । परस्मै पदार्थ (परार्थ) यद् अनुमानं तत्र पुनः इति पक्षान्तरसूचने जिज्ञापयिषितविशेषो धर्मी 'पक्ष:' इत्यनुवर्तते । कुत एतत् ? इत्यत्राह - स्वनिश्चयं चेद् (यत्) १५ इत्यादि । इच (स्व) इत्यनेन प्रतिपादकः परामृश्यते । तस्य निश्चयः अनुमेयप्रतिपत्तिः तेन तुल्यं वर्त्तते इति तद्वद् अन्येषां प्रतिपाद्यानाम् निश्चयोत्पादनाय अनुमेयप्रतीतिजननाय पक्षपरिग्रहात् प्रतिपादकस्य कारणात् जिज्ञापयिषितविशेषः स इत्युच्यते । यत्र हि प्रति असिद्धो धर्मः प्रतिपादयितुमिष्टो भवति स एव तथोच्यते ।
२०
३७४
ननु स्वनिश्चयवदन्येषां निश्चयोत्पादनाय पक्षपरिग्रहेऽपि यदि प्रतिपाद्याभिमतस्य तत्र धर्मजिज्ञासा नास्ति [ ३०१ क] कथमसौ जिज्ञापयिषितविशेषः ? तत्र विशेषं ज्ञातुम् इच्छन्तं प्रतिपादयितुमिष्टविशेषः जिज्ञापयिषित विशेष इत्युच्यते इति चेत् ; अत्राह - सत्यां च इत्यादि । सत्यामेव परस्य प्रतिपाद्यस्य जिज्ञासायां जिज्ञापयिषितविशेषो धर्मी पक्ष उच्यते ।
ननु तत्र तस्य यदि जिज्ञासा' [स्या ] तर्हि यथा स्वार्थे अनुमाने तद्वत एव पक्षव्यपदेशः तथा परार्थेऽपि परस्य तद्वतः तद्व्यपदेश इति तद्गुणदोषाभ्यां परस्यैव सम्बन्धो न प्रति२५ पादकस्येति चेत् ; अत्राह - वक्त्रभिप्रायस्यैव इत्यादि । 'सत्यां च' इत्यादि अनुवर्त्तते । ततोऽयमर्थः–सत्यामपि परस्य जिज्ञासायां तत् अप्रतीतार्थं प्रतिपादयिषोः प्रतिपादकस्य इत्यर्थः । पक्षेण व्यपदेशः पक्षव्यपदेशः तस्य स पक्ष इति यावत् नेतरस्य । कुतः ? इत्यत्राह - वक्तुः प्रतिपादकस्य योऽभिप्रायः तदप्रतीतार्थप्रतिपादनाभिसन्धिः तस्यैव न इतराभिप्रायस्य प्रत्यासत्तेः कारणात् । तथाहि—प्रथमं परस्य तत्त्वबुभुत्सा तदनन्तरं तन्निवेदनं पुनः प्रतिपादकस्य तत्प्रति३० पादनाभिप्रायः पक्षपरिग्रहश्च इति पक्षपरिग्रहं प्रति वक्त्रभिप्रायस्य प्रत्यासत्तिः । [ उभ ] यत्र "साधितं निदर्शनमाह-परार्थव्यपदेशवद् इति ।
(१) शब्दानित्यत्वे साध्ये । (२) साध्ये । (३) 'ननु' इति वितर्के । ( ४ ) जिज्ञासावतः । ( ५ ) जिज्ञासावतः ! (६) प्रतिपाद्यस्यैव । (७) प्रसिद्धमित्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org