________________
६२]
हेतुलक्षणम्
३७३ स्वार्थानुमाने 'जिज्ञासितविशेषो धर्मी पक्षः । परार्थानुमाने पुनः जिज्ञापयिषितविशेषः स्वनिश्चयवदन्येषां निश्चयोत्पादनाय पक्षपरिग्रहात्। सत्याञ्च परस्य जिज्ञासायां तत्प्रतिपादयिषोः पक्षव्यपदेशो वक्त्रभिप्रायस्यैव प्रत्यासत्तेः परार्थव्यपदेशवत् । तादृशपक्षस्य निरुपचरितस्य धर्मः तदंशेन च व्याप्तः । निरुपचरितस्व तैदंशः तद्धमस्तदेकदेश इति, पैक्षशब्देन समुदायवचनात् । पक्षो धर्मीत्युपचारे तद्धर्मतापि न सिद्धा । नहि तत्र ५ तद्धर्मः साधयितुमिष्टः तथा च सर्वः सर्वधर्मा स्यात् इच्छाया निरङ कुशत्वात् । तदनिराकृतौ साधयितुमिष्टः तद्धर्मः इति सन्देहः स्यात् , अन्यथा हेतुवचनानर्थक्यात् । सन्दिग्धधर्मणः पक्षधर्मत्वे कथं तत्रोपचरितपक्षव्यपदेशः सन्दिग्धं धर्ममिच्छन् हेतोरसिद्धिमाशङ क्येत ? यतोऽयं उपचारमाश्रयेत् । यदि पुनः उपचरितपक्षस्य धर्मिणः असन्दिग्धेन व्याप्तो हेतुः; शब्दस्य नित्यत्वे कृतकत्वादिरपि सत्त्वप्रमेयत्वादिना व्याप्तो हेतुः स्यात् न तद्धर्मिणा । १० न च स्वयमेकदेशोपचारवृत्तेः पुनः सर्वनाम्ना परामृश्य समुदायशब्दस्य समुदायवृत्तिरयुक्ता, यतः पक्षशब्देन समुदायस्यावचनात् धर्मिण एव वचनात् तदंशवत् तद्धर्मो न तदेकदेशः इति गुंक्तं स्यात् यथा ग्रामस्य तदेकदेशस्थितोऽहमद्राक्षमिति । तदेतत् मुख्यशब्दार्थलङ्घनं गङ्गास्नानभयात् कर्कटीभक्षणन्यायमनुसरति तत्र व दोषात् । व्याप्तिापकस्य तत्र भाव एव व्याप्यस्य वा तत्र व भावः तत्र अन्यथानुपपत्तिरेव नान्यत् रूपम् । १५ न चेत् ; किं कस्य व्याप्यं व्यापकं च ? कारणं कार्यस्य स्वभावो भावस्य चेत् । क्षणिककारणस्य कार्यकालमप्राप्नुवतः कथं व्याप्तिर्नाम ? तत्स्वभावयोश्च भेदैकान्ते किं केन व्याप्यते ? व्यवहत्रभिप्रायवशात् तत्त्वमसमीक्ष्य तादात्म्यतदुत्पत्तिव्यवस्थायां स प्रमाणान्तरं प्रसज्येत अविसंवादकत्वात् । विसंवादित्वे तदाश्रयणमप्रेक्षाकारित्वं प्रकृतानुपयोगात् । तदेतस्मिन् प्रतिबन्धनियमे कथं चन्द्रादेरर्वाग्भागदर्शनात् परभागोऽनुमीयेत ? २० नानयोः कार्यकारणभावः सहैव भावात् । न च तादात्म्यम् ; लक्षणभेदात् अलम् अन्यथानुपपत्तेरनवद्यमनुमानम् । किं पुनरन्यथोपपद्यते ? न वै भावाः पर्यनुयोगमहेन्ति ? तादात्म्ये किं पुनः कारणं वृक्षस्वभावा शिंशपा, धूमोऽग्निकार्यमतिप्रसङ्गात् अत्रापि तदेवोत्तरम् ।
अनेन हेतो रूपं तद्ग्राहकं प्रमाणम् , तदनभ्युपगमे तदा सतां (तदसत्तां) च दर्शयति । पक्षः २५
(1) "अनुमेयोऽन जिज्ञासितविशेषो धर्मी ।"-न्यायवि० २।६। (२) तुलना-"नवाचार्यस्य पक्षवचनमभिमतमेव । यदाह-स्व निश्चयवदन्येषां निश्चयोत्पादनेच्छया । पक्षधर्मत्वसम्बन्धसाध्योक्तरन्यवर्जनम् ॥"-प्र०वार्तिकाल. पृ० ४८७ । "स्वनिश्चयवदन्येषां निश्चयोत्पादन बुधैः । परार्थ मानमाख्यातं वाक्यं तदुपचारतः ॥"-न्यायावता० श्लो० १० । (३)"तदंशो हि तद्धर्म एव"-हेतुबि० पृ० ५३ । (४) “पक्षो धर्मी अवयवे समुदायोपचारात्'-हेतुबि० पृ. ५२ । (५) “तदा हि वक्तुरभिप्रायवशान्न तदेकदेशः तदंशः पक्षशब्देन समुदायावचनात् ।"-प्र. वा० स्ववृ० पृ० १६ । (६) "तस्य व्याप्तिर्हि व्यापकस्य तत्र भाव एव । व्याप्यस्य वा तत्रैव भावः ।"-हेतुबि० पृ० ५३ । (७) तुलना-"चन्द्रादेजलचन्द्रादिप्रतिपत्तिस्तथाऽनुमा ।"-लघी० श्लो० १३ । “सास्नाविषाणयोरेवं चन्द्रार्वापरभागयोः ।" -न्यायवि० २११७१।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org