________________
३७२
- सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः ण क द र्थ न म् उत्तरभाष्यं यतः कृतमिति चेत् ; नन्वेवं सी म न्ध र भ डा र क स्य अशेषार्थसाक्षात्कारिणः तीर्थकरस्य स्यात् । तेनं हि प्रथमम्
*"अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ।
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥" ५ इत्येतत् कृतम् । कथमिदमवगम्यते इति चेत् ? पात्र के श रि णा 'त्रि लक्ष ण क द
र्थ नं कृतमिति कथमवगम्यते इति समानम् ? 'आचार्यप्रसिद्धः' इत्यपि समानमुभयत्र । कथा च महती सुप्रसिद्धा। तस्य तत्कृतत्वे प्रमाणमाण्ये (प्रमाणाभावे) तत्प्रसिद्धौ कः समाश्वासः ? तदर्थं करणात् तस्येति चेत् ; तर्हि सर्व शास्त्रं तदवि[भिधेयं च अत एव शिष्याणामेव न 'तत्कृतम्'
इति व्यपदिश्येत । पात्र के स रि णोऽपि वा न भवेत् ; तेनापि अन्यार्थं तत्करणात् तेनाप्य१० न्यार्थमिति न कस्यचित् स्यात् ।
। अनेन 'तद्विषयप्रबन्धकारणात् पात्र के स रि णः तद्' इति चिन्तितम् ; मूलसूत्रकारेण "कस्यचिद् व्यपदेशाभावप्रसङ्गात् । तस्मात् साकल्येन साक्षात्कृत्य उपदिशत एव अयं भगवतः तीर्थकरस्य हेतुः इति निश्चीयते । एतच्च अमलालीढत्वे कारणमुक्तम् ।
ननु तेनापि तदङ्गीक्रियते साध्याभावे नियमेन साधनाभावस्योपगमात् , तत् किमुच्यते १५ बालं (नालं) प्रबोदधुमिति ? [३००क] अत्राह-स्वीकुर्वन् 'बालः पदम्' इति च
अनुवर्तते । मलिनीकरोति अमलं करोति । कैः ? इत्याह-वितथैकान्तः पक्षधर्म एव सपक्षे सन्नेव इत्यादयो पि तथा (वितथा) मृषा एकान्ताः तैः इति । निर्मलं समलं विधाय प्रतिपद्यमानः तत्प्रतिपद्यते द्विचन्द्रदर्शी [व] चन्द्रमसमिति मन्यते । अनेन बालत्वं हेयादेवविवेककाल (काहल)विप्रलम्भत्वञ्चोपदर्शयति ।।
संप्रति तत्खलपलब्धाकुलतां दर्शयन्नाह-न केवलम् इत्यादि । न केवलं तत् मलिनीकरोति किन्तु क्रोशत्यपि ।। कान् ? इत्यत्राह-साधुशासिनः दृष्टेष्टाविरुद्धप्रतिवचनप्रणेतृन् । 'स्वामिनः' इत्येतत् ज्ञात (जात ता) विभक्तिवचनपरिणामम् इह संबध्यते । *"एतेनैव यदहीकाः" [प्र० वा० ३।१८०] 'इत्यादि वचनात् शपति इत्यवगम्यते । तत्खलविप्रलब्धा
कुल एव तान् शपति नान्यः इति हेतोः व्यक्तं विशदं यथा भवति तत् पदं तथा विवे. २५ श्यामहे ।
किं तस्य पदं केन वाच्यं व्यक्तं करिष्यते इति ? अत्राह-पक्ष इत्यादि ।
["पक्षधर्मस्तदंशेन व्याप्तोऽप्येति हेतुताम् ।
अन्यथानुपपन्नोऽयं न चेत्तर्केण लक्ष्यते ॥२॥ (१) सीमन्धरेण । (२) एतन्नामकं शास्त्रम् । (३) आराधनाकथाकोशे । (४) अन्यथानुपपत्तिश्लोकस्य । (५) सीमन्धरकृतत्वे । (६) पात्रकेशरिकृतमिति प्रसिद्धौ। (७) पात्रकेशर्यर्थम् । (८) स्वशिष्यार्थम् । (९) व्याख्यान । (१०) सूत्रस्य । (११) "किमप्ययुक्तमाकुलम् । प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसंभवात् ॥” इति शेषः । (१२) तुलना-"पक्षधर्मस्तदंशेन व्याप्तो हेतुः..."-हेतुबि०श्लो०१।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org