________________
[षष्ठः प्रस्तावः]
[६ हेतुलक्षणसिद्धिः] अथ स्वैरेव विपश्चिद्भिः हेतोः विनिश्चितत्वात् इह पुनरपि किमर्थं विनिश्चीयते इति चेत् ; अत्राह-[हे] य इत्यादि ।
[ हेयादेयविवेककाहलखलो बालः प्रलब्धाकुलः, प्रायो नालमलं प्रबोधुममलालीढं पदं स्वामिनः । स्वीकुर्वन्मलिनीकरोति वितथैकान्तैर्न तत् केवलम् ,
शपति क्रोशति साधुशासिन इति व्यक्तं विवेक्ष्यामहे ॥१॥ बाल इव स्वभाध्व स्वभावतो वैमुख्यात् परः सौगतादिः बालः अनेन संहजं मोहमस्य दर्शयति । किंभूतः ? इत्याह-हेयम् पक्षधर्मत्वादिकम् आदेयम् अन्यथानुपपन्नत्वं तयोः विवेको विवेचनम् मिथः पृथक्करणम् तत्र काहलश्चासौ खलश्च स काहलः (काहलखलः) काहलकातः (कत्वतः) तद्विवेकक्लेशभीरुः । खलः शतः (खलत्वतः) तद्वि- १० वेकम् अन्येन प्रतिपाद्यमानोऽपि स्वायम् (स्वयम्) अप्रतिपद्यमानःपूर्वः (नपूर्वः) ते प्रायेण बाहुल्येन प्रलब्धो वञ्चितश्चासौ आकुलश्च इत्यनेन आभिसंस्कारिकं दर्शयन्ति । स किम् ? इत्याह-नालं शक्तः अलम् अत्यर्थं मनाक् समर्थ इत्यर्थः *"अविनाभावनियमाद्" [हेतुबि० श्लो० १] इति वचनात् । किं कर्तुम् नालम् ? इत्यत्राह-प्रबोदधु ज्ञातुम् । किम् ? इत्याह-पदम् अधिकारात् हेतुं 'पद्यते गम्यते अनेन अनुमेयोऽर्थः' इति [२९९ख] १५ व्युत्पत्तेः।
ननु सदोषं तत् , अतस्तदपरिज्ञानमदोषाय इति चेत् ; अत्राह-अमलालीढम् अमलैः गणधरप्रभृतिभिः आलीढम् आस्वादितम् । नहि ते सदोषमालिहन्ति अमलत्वहानिः (नेः) । कस्य तत् ? इत्यत्राह-स्वा मि नः पात्र के श रि ण इत्येके । कुत एतत् ? तेने तद्विषय नि ल क्ष
(१) 'स्वभावाध्व' इति व्यर्थमन्त्र । (२) नैसर्गिकं मिथ्यात्वम् । (३) खलत्वात् । (१) कारणेन । (५) परोपदेशजं मिथ्यात्वम् । (६) "पक्षधर्मस्तदंशेन व्याप्तो हेतुस्विधैव सः। अविनाभावनियमात् हेत्वाभासास्ततोऽपरे ॥"-हेतुबि० श्लो० १। प्र० वा० ३।३। (७) तीर्थकरस्य । (८) व्याख्याकाराः । तुलना-"नेदं स्वबुद्धिकल्पितम् अपि तु परागमसिद्धमित्युपदर्शयितुकामो भावत्सीमन्धरस्वामितार्थकरदेवसमवसरणात् गणधरदेवप्रसादादासादितं देव्या पद्मावत्या यदानीय पात्रकेसरिस्वामिने समर्पितमन्यथानुपपत्तिवार्तिकं तदाह-अन्यथानुपपन्नत्वं..."-न्यायवि०वि० द्वि० पृ० १७७ । “हेतुलक्षणं वार्तिककारेणैवमुक्तम्-अन्यथानुपपन्नत्वं . "-त० श्लो० पृ. २०५। प्रमाणप० पृ० ७२ । जैनतर्कवा० पृ. १३५ । सूत्रकृ० टी० पृ० २२५ । प्र. मी० पृ०४० । “अन्यथेत्यादिना पात्रस्वामिमतमाशङ्कते."नान्यथानुपपन्नत्वं ... अन्यथानुपपन्नत्वं ..."-सन्मति० टी० पृ. ५६० । न्यायदी० पृ. ३२ । "तदुक्तं पात्रस्वामिना -अन्यथानुपपन्नत्वं..."-स्या० रत्ना० पृ. ५२१ । “अन्यथाऽसम्भवो ज्ञातो यत्र तत्र त्रयेण किम् ।"प्रमाणसं० पृ० १०४ । “तदुक्तम्-अन्यथानुपपन्नत्वं..."-प्र. वा०स्ववृ०टी० पृ. ९। (९) पात्रकेशरिणा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org