Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 20
________________ ६२] हेतुलक्षणम् ३७३ स्वार्थानुमाने 'जिज्ञासितविशेषो धर्मी पक्षः । परार्थानुमाने पुनः जिज्ञापयिषितविशेषः स्वनिश्चयवदन्येषां निश्चयोत्पादनाय पक्षपरिग्रहात्। सत्याञ्च परस्य जिज्ञासायां तत्प्रतिपादयिषोः पक्षव्यपदेशो वक्त्रभिप्रायस्यैव प्रत्यासत्तेः परार्थव्यपदेशवत् । तादृशपक्षस्य निरुपचरितस्य धर्मः तदंशेन च व्याप्तः । निरुपचरितस्व तैदंशः तद्धमस्तदेकदेश इति, पैक्षशब्देन समुदायवचनात् । पक्षो धर्मीत्युपचारे तद्धर्मतापि न सिद्धा । नहि तत्र ५ तद्धर्मः साधयितुमिष्टः तथा च सर्वः सर्वधर्मा स्यात् इच्छाया निरङ कुशत्वात् । तदनिराकृतौ साधयितुमिष्टः तद्धर्मः इति सन्देहः स्यात् , अन्यथा हेतुवचनानर्थक्यात् । सन्दिग्धधर्मणः पक्षधर्मत्वे कथं तत्रोपचरितपक्षव्यपदेशः सन्दिग्धं धर्ममिच्छन् हेतोरसिद्धिमाशङ क्येत ? यतोऽयं उपचारमाश्रयेत् । यदि पुनः उपचरितपक्षस्य धर्मिणः असन्दिग्धेन व्याप्तो हेतुः; शब्दस्य नित्यत्वे कृतकत्वादिरपि सत्त्वप्रमेयत्वादिना व्याप्तो हेतुः स्यात् न तद्धर्मिणा । १० न च स्वयमेकदेशोपचारवृत्तेः पुनः सर्वनाम्ना परामृश्य समुदायशब्दस्य समुदायवृत्तिरयुक्ता, यतः पक्षशब्देन समुदायस्यावचनात् धर्मिण एव वचनात् तदंशवत् तद्धर्मो न तदेकदेशः इति गुंक्तं स्यात् यथा ग्रामस्य तदेकदेशस्थितोऽहमद्राक्षमिति । तदेतत् मुख्यशब्दार्थलङ्घनं गङ्गास्नानभयात् कर्कटीभक्षणन्यायमनुसरति तत्र व दोषात् । व्याप्तिापकस्य तत्र भाव एव व्याप्यस्य वा तत्र व भावः तत्र अन्यथानुपपत्तिरेव नान्यत् रूपम् । १५ न चेत् ; किं कस्य व्याप्यं व्यापकं च ? कारणं कार्यस्य स्वभावो भावस्य चेत् । क्षणिककारणस्य कार्यकालमप्राप्नुवतः कथं व्याप्तिर्नाम ? तत्स्वभावयोश्च भेदैकान्ते किं केन व्याप्यते ? व्यवहत्रभिप्रायवशात् तत्त्वमसमीक्ष्य तादात्म्यतदुत्पत्तिव्यवस्थायां स प्रमाणान्तरं प्रसज्येत अविसंवादकत्वात् । विसंवादित्वे तदाश्रयणमप्रेक्षाकारित्वं प्रकृतानुपयोगात् । तदेतस्मिन् प्रतिबन्धनियमे कथं चन्द्रादेरर्वाग्भागदर्शनात् परभागोऽनुमीयेत ? २० नानयोः कार्यकारणभावः सहैव भावात् । न च तादात्म्यम् ; लक्षणभेदात् अलम् अन्यथानुपपत्तेरनवद्यमनुमानम् । किं पुनरन्यथोपपद्यते ? न वै भावाः पर्यनुयोगमहेन्ति ? तादात्म्ये किं पुनः कारणं वृक्षस्वभावा शिंशपा, धूमोऽग्निकार्यमतिप्रसङ्गात् अत्रापि तदेवोत्तरम् । अनेन हेतो रूपं तद्ग्राहकं प्रमाणम् , तदनभ्युपगमे तदा सतां (तदसत्तां) च दर्शयति । पक्षः २५ (1) "अनुमेयोऽन जिज्ञासितविशेषो धर्मी ।"-न्यायवि० २।६। (२) तुलना-"नवाचार्यस्य पक्षवचनमभिमतमेव । यदाह-स्व निश्चयवदन्येषां निश्चयोत्पादनेच्छया । पक्षधर्मत्वसम्बन्धसाध्योक्तरन्यवर्जनम् ॥"-प्र०वार्तिकाल. पृ० ४८७ । "स्वनिश्चयवदन्येषां निश्चयोत्पादन बुधैः । परार्थ मानमाख्यातं वाक्यं तदुपचारतः ॥"-न्यायावता० श्लो० १० । (३)"तदंशो हि तद्धर्म एव"-हेतुबि० पृ० ५३ । (४) “पक्षो धर्मी अवयवे समुदायोपचारात्'-हेतुबि० पृ. ५२ । (५) “तदा हि वक्तुरभिप्रायवशान्न तदेकदेशः तदंशः पक्षशब्देन समुदायावचनात् ।"-प्र. वा० स्ववृ० पृ० १६ । (६) "तस्य व्याप्तिर्हि व्यापकस्य तत्र भाव एव । व्याप्यस्य वा तत्रैव भावः ।"-हेतुबि० पृ० ५३ । (७) तुलना-"चन्द्रादेजलचन्द्रादिप्रतिपत्तिस्तथाऽनुमा ।"-लघी० श्लो० १३ । “सास्नाविषाणयोरेवं चन्द्रार्वापरभागयोः ।" -न्यायवि० २११७१। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 456