Book Title: Siddhchakra Yantroddhar Vidhi Vyakhya
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ 24 अनुसन्धान ३६ साथे होवानुं सम्भवित छे. ॐ नमः सिद्धं ॥ गयणमकलिआयंतं उड्डाहसरं सनायबिंदुकलं । सपण[व]क्रोवबीया-णाहय मंतसरं सरह पीढम्मि ॥१॥ अथ ग्रन्थकारो द्वादशभिर्गाथाभिः श्रीसिद्धचक्रोद्धारविधिमाह ! तत्रेयमादिगाथा-गयणमित्यादि । अत्र गगनादिसंज्ञा मन्त्रशास्त्रेभ्यो ज्ञेया । तत्र 'गगन' शब्देन 'ह' इत्यक्षरमुच्यते । पीढमिति मूलपीठे यन्त्रस्य सर्वमध्ये 'ह' इत्यक्षरं स्मरत । इह च स्मरणमेवाऽधिकृतम् । स्मरणस्याऽशक्यत्वे पदस्थध्यानसाधनार्थं मनोज्ञद्रव्यैर्वहिका-पट्टादौ लिखनमपि पूर्वाचार्यैराम्नातम् । एवमन्येष्वप्यग्रेतनगाथागणोक्तेषु बीजेषु ध्यानादिकं स्वयमूह्यम् । तत्रादौ हकाराक्षरं लेख्यमिति प्रकृतम् । तत् कीदृशमित्याह - अकलिआयंतमिति । अस्यअकाराक्षरस्य कलिका-व्याकरणसंज्ञामयी वक्रा '5' इत्यकाररूपी(पा)। तया आचान्तं-सहितं-आदौ अकलिकया युक्तम् । ततो 'ऽह' इति भवति । पुनर्गगनबीजं कीदृक् ? उड्डाहसरं ति । उर्वाध: सरं - सह रेण- रकाराक्षरेण वर्तते इति सरम् । हकारस्योद्धमधश्च रो न्यस्यत इत्यर्थः । ततो 'ऽर्ह (ही' इति जातम् । पुनः कीदृशं गगनम् ?-सनायबिंदुकलं ति । नाद इत्यर्द्धचन्द्राकारोऽनुनाशिकः, तन्न्यासः । बिन्दुकला च पूर्णोऽनुस्वारः । ततो नादश्च बिन्दुकला च-एताभ्यां सहितम् । ततो '5' इति जातम् । पुनः कीदृशम् ? - सपणवत्ति । सप्रणवबीजानाहतम् । प्रणव- ने कारः, बीजं - द्वाकारः, अनाहतं च कुण्डलाकारं G) एतादृशं बीजम् । ततश्च द्वन्द्वः, तैः सहितम् । अत्राऽऽम्नाय: - ऽ मेति बीजं नकारोदरे न्यसेत् । एतच्च बीजद्वयं झाकारोदरे न्यसेत् । ततश्च नाकारस्येकारस्वरात् रेखां पश्चाद् वालयित्वा द्वि:कुण्डलाकारेणाऽनाहतेन तद्बीजत्रयमपि वेष्टयेत् । तन्न्यासः ७ । पुनः कीदृक् ? - अंतसरं ति । अन्ते स्वरा-मातृकोक्ताः 'अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ अं अः' इति लक्षणाः षोडश यस्य तदन्तस्वरम् । पूर्वोक्तस्य सर्वतः स्वरान् न्यसेदित्यर्थः । इत्येता[व]त् कर्णिकायां ध्यायतेत्यर्थः ॥ इति प्रथमगाथा ॥१|| For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6