Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 13
________________ बृहद्वृत्ति-लघुन्याससंवलिते [पाद-३, सूत्र-३ धानान्न धातुसंज्ञा । एतेन क्रियैवाभिधेया यस्य स धातुः एवं च कृत्वा, कर्तुमित्यादिषु भावे कृत् प्रत्ययान्तस्यापि न धातुसंज्ञा । कि चात्रान्यदपि उत्तरमस्ति साध्ये अव्ययसंज्ञया धातुसंज्ञाया बाधितत्वात् , 'इकिश्तिव्स्वरूपार्थे' ५-३-१३८ इति प्रत्ययान्तस्य सिद्धसाध्ययोरभेदोपचारेण सिद्धरूपत्वात् । कर्त्तव्यं, भूयते इत्यादौ तु भावे त्याद्यन्तस्य क्रियार्थत्वेऽपि न धातुत्वं साहचर्यात् , यतोऽन्येषामलिङ्गसंख्यानामपदसंज्ञकानां धातुसंज्ञाप्रत्ययादि, अत्र तु लिङ्गसंख्यापदसज्ञानां विद्यमानत्वात् । शिष्टप्रयोगानुसारित्वादिति-लक्षणात् पार्थक्येन शिष्यन्ते प्रतिपाद्यन्ते इति शिष्टा धातवस्तेषां प्रयोगः पाठस्तदनुसारित्वात् तत्सव्यपेक्षत्वात् । अस्य लक्षणस्य क्रियाओं धातुरित्यस्येत्यर्थः, यद्येवं पाठ एवाऽस्तु किमनेन लक्षणेनेति चेत् ? नैवं, पाठपठितानामपि क्रियार्थानामेव धातुत्वज्ञापनार्थत्वादित्याह-शिष्टज्ञापनायेति-अयमर्थो लक्षणात् पृथक्पठिता अपि त एव शिष्टा धात्वो ये क्रियार्थाः, तेन वावाप्रभृतीनां सर्वनामविकल्पाद्यर्थानां पाठाविसंवादित्वेऽपि लक्षणविसंवादित्वादाणपयत्यादीनां तु क्रियार्थत्वेऽपि पाठविसंवादित्वाद्धातुत्वाभावः। अन्वयव्यतिरेकाम्यामिति-अथ कथं प्रकृतिप्रत्ययसमुदायेऽपि प्रकृतेरेव धातुत्वम् ? इत्याह-तथाहि-पचतीति-अत्र पचि: पाके वर्तते, पाकशब्देन च सिद्धो भाव उच्यते, साध्याभिधायिनश्च धातुत्वमत: कथमिह धातुत्वम् ? (सत्यं,) अन्यथा वक्तुमशक्यत्वात् पाकशब्देनापि साध्यो भाव उच्यते साध्यावस्थामनुभूयैव हि सिद्धभावोऽपि भवतीति । संसृष्टक्रियेति-क्रिया च कालश्च कारकं च क्रियाकालकारकाणि तानि आदयो येषां, आदिशब्दादेकत्वादि, संसृष्टाश्च ते क्रियाकालकारकादयश्च ते च ते अनेकार्थाश्च । न एकोऽनेकः, अनेके च ते अर्थाश्च तान् अभिदधातीति । शब्दो होयते इति जहाति शब्दं देवदत्तः, स एवं विवक्षते, नाहं जहामि किंतु स्वयमेव होयते। व्यापारविशेष इति-पचतीत्यादिषु हि तदस्ति इति धातुत्वं यतः, पचतीत्युक्ते, न पठति, न गच्छति, न किंचिदन्यद्व्यापारान्तरं विधत्ते किंतु पाकरूपविशेष एव गम्यत इति । ननु तथापि अस्त्यादीनां न प्राप्नोति क्रियात्वं सत्ताया व्यापारविशेषाभावात् , यतः सर्वोऽपि धात्वर्थोऽस्त्यादिभिर्व्याप्त: ? इत्यतो युक्तिमाह ___ व्यापारश्चेत्यादिः-अयमर्थोऽस्त्येवैतत् तथापि पाकादेविशेषात् सत्ताया अपि विशेषो ज्ञायते स्वरूपेण, न हि स एव पाक: सैव सत्तेति, यथाऽनेकघटाच्छादक एक: पटस्तेष्वनुष्यूतोऽपि तेभ्यो भिद्यते, न हि स एव पटः स एव घट इति, एवं कृतेऽपि तथा । भावे घनीति-यथा क्रियाशब्दस्य न करोत्यर्थः प्रवृत्तिनिमित्तं किन्तु कारकव्यापारविशेषस्तथा भावशब्दे च न भवत्यर्थः प्रवृत्तिनिमित्तमपि तु कारकव्यापार एवेत्यर्थः, यदाह हरिः आख्यातशब्दे भागाभ्यां, साध्यसाधनवत्तिता। प्रकल्पिता यथाशास्त्रे, स घत्रादिष्वपि क्रमः ।। १ ।।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 512