Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 14
________________ पाद-३, सूत्र-४] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः साध्यत्वेन क्रिया तत्र, धातुरूपनिबन्धना । सत्वभागस्तु यस्तस्याः, स घत्रादिनिबन्धनः ।।२।। तत्र सिद्धस्वभावेति-निर्धारणसप्तम्यन्तात् त्रप् , सिद्धसाध्यभेदयोर्मध्ये इत्यर्थः । परितः परिच्छन्नेति-निष्पन्नत्वात् सर्वात्मना ज्ञातेत्यर्थः परिनिष्ठितरूपा वेत्यर्थः । सत्वभावमापन्नेति-अयमर्थः पाक इत्यादौ प्रकृतिभागः साध्यरूपमर्थमाह प्रत्ययभागस्तु सत्त्वरूपताम् । भूतभविष्यदित्यादि-सर्वेषां द्वंद्वपूर्वो बहुव्रीहिः पृथगर्थत्वात् , भूतभविष्यद्वर्त्तमानाश्च ते सदसन्तश्चेति कर्मधारयपूर्वो वा, आदिशब्दात् प्रत्यक्षपरोक्षता । विपरिणमते इति--विपरिणमति देवदत्त: पदार्थ स एवं विवक्षते, नाहं विपरिणमामि स्वयमेव विपरिणमते, 'एकधातोः" ३-४-८६ इत्यात्मनेपदं, किरादित्वाच्च क्याभावः एवमपक्षीयते इत्यत्रापि । यावत् सिद्धमसिद्धं वेति सिद्धं सत्तादि, असिद्धं तु कटादि । नन्वेवं तहि सत्तायाः साध्यमानता कया रीत्या ? उच्यते,-यथा एकस्मिन् स्थाने पाषाणखण्डं कस्तूरिका चास्ति, ततः कस्तूरिकामाहात्म्यात् पाषाणखण्डमपि सुगन्धि भवत्येवमत्रापि कस्मिश्चिदेकस्मिन् पिण्डे पाकक्रिया सत्ता च विद्यते पाकक्रिया च पूर्वापरीभूता ततस्तस्या माहात्म्यात् सत्तापि पूर्वापरीभूता भवति इति साध्यमानत्वं किंबहुनाख्यातपदेन उच्यमानः सिद्धभावोऽपि साध्यरूपतां भजति तन्माहात्म्यात् । न प्रादिरप्रत्ययः ।। ३. ३. ४ ॥ 'प्रादिश्चाद्यन्तर्गणः, स धातुः,-धातोरवयवो न भवति-तं व्युदस्य ततः पर एव धातुसंज्ञो वेदितव्यः, अप्रत्यय:-न चेत् ततः परःप्रत्ययो भवति । अभ्यमनायत, अभिमिमनायिषते, अभिमनाय्य गतः, प्रासादीयत्, प्रासिसादीयिषति, प्रासादीय्य गतः । प्रादिरिति किम ? अमहापत्रीयत । अप्रत्यय इति किम? 'औत्सकायत, उत्ससकायिषते, उत्सुकायित्वा । 'अभिमनायादिः प्रत्ययान्तः स प्रादिसमुदायः क्रियार्थ इति तस्मिन् धातुसंज्ञे प्राप्ते प्रादिस्ततः प्रतिषेधेन बहिष्क्रियते, ततश्च तत उत्तर एव धातुरिति तस्याट द्विर्वचनं च भवति, प्रादेश्नोत्तरेण समास इति क्त्वाया यबादेशः। असंग्रामयत शूर इति नायं सम् प्रादिः, किन्तु धात्ववयवः, यथा-विच्छाद्यवयवो विः, “संग्रामणि युद्ध" इत्यखण्डस्य चुरादौ पाठात् ॥ ४ ॥ न्या० स०-न प्रादि०-प्रासादीय्य गत इति-यद्यत्र धातुत्वं स्यात्तदा 'गतिक्वन्य' *३-१-४२ इति समासो न स्यात् 'नाम नाम्ना०' ३-१-१८ इत्यनुवर्तनात् , धातुत्वे च नामत्वं न स्यात् । उत्सुसुकायते इति 'नाम्नो द्वितीयात् ४-१-७ इति सु इति द्विरुक्तः, 'धुटस्तृतीयः' २-१-७६ इति कृतदस्थानतकारस्य परेऽसत्त्वात् 'न बदनम्' ४-१-५

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 512