Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
२ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद- ३, सूत्र- २-३
गुणोऽरेदोत् । ३. ३. २ ॥
'श्रर् एव ओत्' इत्येते प्रत्येकं गुणसंज्ञा भवन्ति । करोति, कर्तव्यम्, चेता, चेयम्, स्तोता, स्तोतव्यम् । गुणप्रदेशाः - "नामिनो गुणोऽक्ङिति " [ ४. ३. १ ] इत्येवमादयः ||२|| न्या० स०- गुणोरे - गुणशब्दस्य पूर्वनिपातो मङ्गलस्यैवातिशयप्रतिपादनार्थः ।
0
क्रियार्थो धातुः । ३. ३.३॥
कृतिः क्रिया, प्रवृत्तिर्व्यापार इति यावत्, पूर्वापरीभूता साध्यमानरुपा साऽर्थोऽभिधेयं यस्य स शब्दो धातुसंज्ञो भवति । एधते, अत्ति, दीव्यति, सुनोति, तुदति, रुणद्धि, तनोति, क्रीणाति, सहति । आयादिप्रत्ययान्तानामपि क्रियार्थत्वात् धातुत्वम् - गोपायति, कामयते, ऋतीयते, जुगुप्सते, कण्डूयति, पापच्यते, चोरयति, कारयति, चिकीर्षति, पुत्रकाम्यति, पुत्रीयति, अश्वति, श्येनायते, हस्तयते, मुण्डयति । एवं जु-स्तम्भूचुलुम्पादीनामपिजवनः, स्तभ्नाति, चुलुम्पांचकार, प्रेङ्खोलयति ।
शिष्ट प्रयोगानुसारित्वादस्य लक्षणस्याणपयत्यादिनिवृत्तिः, शिष्टज्ञापनाय चेदं लक्षणम्, एतदविसंवादेन च शिष्टा ज्ञायन्त इति ।
श्रन्वयव्यतिरेकाभ्यां च धातोः क्रियार्थत्वावगमः, तथाहि पचतीत्यादौ धातुप्रत्यय समुदाये संसृष्ट क्रियाकालकारकाद्यनेकार्थाभिधायिनि प्रयुज्यमाने धातोरेव क्रियार्थत्वमवगम्यतेऽन्वयव्यतिरेकाभ्यां नेतरेषाम् । पचतीति प्रयोगे द्वयं श्रूयते - 'पच्' इति प्रकृतिः, 'अति:' इति च प्रत्ययः, अर्थोऽपि कश्चिद् गम्यते विक्लित्तिः कर्तृ त्वमेकत्वम्; पठतीत्युक्ते
चित् शब्द हीयते कश्चिदुपजायते कश्चिदन्वयी, 'पच्' शब्दो हीयते पठ्' शब्द उपजायते 'अति' शब्दोऽन्वयी, अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी, विक्लित्तियते पठरुपजायते कर्तृवमेकत्वं चान्वयी; तेन मन्यामहे यः शब्दो हीयते तस्यासवर्थो योऽर्थो हीयते, यश्व शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते, यश्च शब्दोऽन्य तस्यासावर्थो योऽन्वयीति ।
ननु च कृतिः करोत्यर्थः क्रिया, तत्र युक्तं पचादीनां किं करोति ? पचति, कि करोति ? पठतीति करोतीत्यर्थगभितत्वात् क्रियात्वम् अस्ति विद्यते भवतीनां तु न युक्तम्, नहि भवति किं करोति ? अस्ति भवति विद्यते चेति, तदयुक्तम् न करोत्यर्थः क्रियाशब्दस्य प्रवृत्तिनिमित्तम् अपि तर्हि कारकव्यापारविशेषः, व्यापारश्च व्यापारान्तराद् भिद्यत इत्यस्त्याद्यर्थोऽपि क्रियैव, करोत्यर्थस्तु क्रियाशब्दस्य व्युत्पत्तिनिमित्तमेव; एवं सति क्रियासामान्यवचनाः कृभ्वस्तयः क्रियाविशेषवचनास्तु पचादय इति सिद्धम् । तथा 'भावे घञ्' इत्युक्त्वा 'कार:, पाक:' इत्यादयोप्युदाह्रियन्ते । 'क्रियोपपदाद्धातोस्तुम्' इत्युक्त्वा 'योद्धुं धनुर्भवति, द्रष्टु ं चक्षुर्जातम्' इत्याद्यप्युदाहरणं युक्तम् । यदाहु: - ' यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यते " इति । क्रिया च द्वेषा सिद्ध-साध्यत्वभेदात् तत्र सिद्धस्वभावोपसंहृतक्रमा परितः परिच्छिन्ना सत्त्वभावमापन्ना घनादिभिरभिधीयते यदाह"कृदभिहितो मावो द्रव्यवत् प्रकाशते" इति; तुमादिभिस्तु सत्त्वभावमनापन्नेति विशेषः ;
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 512