Book Title: Shrutpanchami Author(s): Darbarilal Kothiya Publisher: Z_Darbarilal_Kothiya_Abhinandan_Granth_012020.pdf View full book textPage 3
________________ दृष्टिपथमाजग्मतुः / तयोर्मध्ये एकोद्गतदन्ता अपरेकनेत्रा / न चैषो देवतानां स्वभाव इति विचिन्त्य मंत्रव्याकरणशास्त्रकुशलाभ्यां ताभ्यां ते विद्ये शुद्धीकृत्य पुनः साधिते / ततश्च ते विद्यादेवते स्वस्वभावस्थिते दृष्टे / पुनस्ताभ्यां सर्वमेतद्वृत्तं वरसेनाचार्य प्रति निवेदितम् / धरसेनाचार्येण ज्ञातश्रुतग्रहणयोग्यताविशिष्टपात्रेण सन्तुष्टेन शुभतिथौ शुभनक्षत्रे शुभदिवसे ताभ्यां सिद्धान्तग्रन्थः प्रारब्धः / पुनः क्रमेण व्याचक्षमाणेन तेन धरसेनाचार्येणाषाढमासशुक्लपक्षकादशम्यां पूर्वाह्न ग्रन्थः समाप्ति नीतः। तेन सन्तुष्टभूत विशेषैर्देवैस्तदा तयोर्मध्ये एकस्य बलि (नैवेद्य) पुष्पादिभिः महती पूजा कृता / तेनाचार्येण धरसेनेनैकस्य भूतवलोति नाम कृतम् / अपरस्य भूतविशेषैर्देवैरेव पूजितस्य समीकृतास्तव्यस्तदन्तस्य पुष्पदन्त इति संज्ञा कृता / एताभ्यामेवाचार्याभ्यां षट्खण्डागमस्य धरसेनाचार्यतः पठितस्य ग्रन्थ-रचना कृता / यद्यपि अल्पायुष्केण पुष्पदन्ताचार्येण विंशतिप्ररूपणासमन्वितसत्प्ररूपणाया एव सूत्राणि रचितानि, भतबल्याचार्यस्य सविधे जिनपालितद्वारा प्रेषितानि च, भगवता भूतबलिभट्टारकेण महाकर्मप्रकृतिप्रामृतस्य विच्छेदो भविष्यतीति विचार्य द्रव्यप्रमाणानुगमादिनिखिलषट्खण्डागमश्रुतस्य निबन्धनं कृतम्, तथापि खण्डसिद्धान्तापेक्षया तावुभावाचार्यों श्रुतस्य (षट्खण्डागमस्य) कर्तारावभिधीयते / ___ एवं मूलग्रन्थकर्ता वर्द्धमानभट्टारकः, अनुग्रन्थकर्ता गौतमस्वामी, उपग्रन्थकर्तारो भूतबलि-पुष्पदन्तादयो वीतराग-द्वेष-मोहा मुनिवरा इत्यवधेयम् / श्रुतनिवन्धनविषयकमेतावन्मात्रमेव वृत्तं वीरसेनाचार्येण धवलाटीकायां निबद्धमस्ति / अतस्तदुक्तवचनात् श्रुतारम्भतिथिर्न विज्ञायते / तस्मात्तु केवलमिदमेवावगम्यते यच्छुभतिथौ शुभनक्षत्रे शुभवारे ताभ्यां श्रुताभ्यासः समारब्धः / आषाढमासशुक्लपक्षकदशम्यां च समाप्ति नीतः / किन्तु श्रीमदिन्द्रनन्दिकृते श्रुतावतारे पुस्तकाकारेण निबद्धस्य श्रुतस्य (षट् खण्डागमस्य) तिथेः स्पष्टतयोल्लेखः कृतः / तथा हि ज्येष्ठसितपक्षपञ्चम्यां चातुर्वर्ण्यसंघसमवेतः / तत्पुस्तकोपकरणैय॑धात् क्रियापूर्वकं पूजाम् // श्रु तपञ्चमीति तेन प्रख्याति तिथिरियं परामाप / अद्यापि येन तस्यां श्रुतपूजां कुर्वते जैनाः / / अत एतत्प्रमाणाज्ज्येष्ठशुक्ला पञ्चमी समुपलब्धस्य निबद्धश्रुतस्य तिथिरिति निश्चीयते / अत्र सन्देहस्य किमपि कारणं नास्ति; तदवचनस्य प्रामाण्याङ्गीकारात ततोऽस्यां तिथौ श्रतपञ्चमीसमारोह: सर्वजनः समुल्लासपूर्वकं समायुज्यते / Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3