Book Title: Shrutpanchami
Author(s): Darbarilal Kothiya
Publisher: Z_Darbarilal_Kothiya_Abhinandan_Granth_012020.pdf
Catalog link: https://jainqq.org/explore/212072/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रुत-पञ्चमी श्रीवृषभादिवीरान्तं रागद्वेषविवजितम्। जिनं नत्वा गुरुं चेति श्रुतं नौमि जिनोद्भवम् ॥ दिगम्बरजैनपरम्परायां महावीर-जन्यत्युत्सववदेव श्रुत-पञ्चम्युत्सवोऽपि महताऽऽदरेण प्रतिवर्ष सोल्लासं सम्पद्यते । तद्दिवसे स्वे स्वे स्थाने सर्वे जैनाः सम्भूय श्रुतपूजां प्रकुर्वते । श्रुतोत्पत्तेश्चै तिह्यमाकर्णयन्ति । तन्माहात्म्यं चावधारयन्ति । प्रसीदन्ति च मुहुर्मुहुः स्वमनस्सु । धन्योऽयं दिवसः । धन्यास्ते महाभागाः यैरस्मिन् दिवसेऽस्मत्कृते स्वहितप्रदर्शकः श्रु तालोकः प्रदत्तः । यदालोकेनाद्यावधि पश्यामो वयं स्वहितस्य पन्थानम् । यदि नाम न स्याच्छ तालोकोऽयं न जाने पथभ्रष्टाः सन्तः क्व गच्छेम वयम् । 'न हि कृतमपकारं साधवो विस्मरन्ति' इति सतां वचनमनुस्मृत्यास्माभिः श्रुतदेवताजन्मदातुः स्मरणार्थं स्वस्य कृतज्ञताप्रकाशनार्थ चेदं श्रतपञ्चमोतिपर्व सवैशिष्टयं सम्पादनीयम् । सततं श्रुताभ्यास-पठन-पाठनदत्तचेतोभिश्च भाव्यम् । सर्वत्र च श्रुतप्रचारः कार्यः । केवलमेकत्र स्थाने शास्त्राण्येकीकृत्य तेभ्य अर्घप्रदानं न श्रुतपूजा श्रु तोपासना वा, अपितु नित्यं प्रसन्नेन मनसा शास्त्राध्ययनं गृहे गृहे शास्त्रप्रवेशः शास्त्रदानं शास्त्रप्रकाशनं चेत्येवं श्रुतप्रचारः श्रुतप्रसारो वा श्रुतपूजा विज्ञेया । श्रावकस्य षडावश्यकेषु 'देवपूजा गुरूपास्ति स्वाध्यायः संयमस्तपः ।' इत्यादिना स्वाध्यायस्यावश्यककर्त्तव्यत्वेन निर्देशः कृतः । श्रावकाचार-साध्वाचारमर्मज्ञेन विदुषा श्रीमदाशाधरेण श्रुतपूजा देवपूजातुल्यैवाभिहिता ये यजन्ते श्रुतं भक्त्या ते यजन्ते जिनमञ्जसा। न किञ्चिदन्तरं प्राहुराप्ता हि श्रुतदेवयोः ।। -सागारधर्मामृते २-४४ । स्वामिसमन्तभद्राचार्येणाप्युक्तं देवागमेस्याद्वाद-केवलज्ञाने सर्वतत्त्व-प्रकाशने। भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥१०५॥ अतएव पूजा-भक्त्यादिषु श्रुतस्यैव भक्तिः प्रार्थिता, न मत्यादिचतुष्टयस्य, संसारवारकत्वाभावात् मोक्षकारणत्वाभावाच्च । श्रुतस्य तु तदुभयकार्यकारित्वात् । तथा हि श्रुते भक्तिः श्रु ते भक्तिः श्रु ते भक्तिः सदाऽतु मे। सज्ज्ञानमेव संसारवारणं मोक्षकारणम् ।। इत्थं श्रुतस्य माहात्म्यं विदितमेव । साम्प्रतं श्रुतोत्पत्तेः किञ्चिदैतिह्यं विलिख्यते । यद्यपि श्रुतावतारादिग्रन्थेषु श्रुतोत्पत्तेरैतिां निबद्धमेव तथापि सर्वजनावबोधार्थमत्र संक्षेपतः तन्निगद्यते । तथा हि षट्खण्डागमस्य टीकायां धवलायां वीरसेनाचार्येण कर्तृ विवेचनप्रसङ्गेन कर्ता द्विविधः प्रोक्तः-अर्थकर्ता ग्रन्थकर्ता च । तत्रार्थकर्ता द्रव्यादिचतुष्टयापेक्षया चतुर्विधो निरूपितः-द्रव्यकर्ता क्षेत्रकर्ता कालकर्ता भावकर्ता च । अष्टादशदोषविमुक्तश्चतुर्विधोपसगंद्वाविंशतिपरीषहातिक्रान्तो योजनान्तरदरसमीपस्थाष्टादशभाषासप्तशत -४६२ - Page #2 -------------------------------------------------------------------------- ________________ क्षुल्लकभाषासमन्विततिर्यग्देवमनुष्यभाषाकारन्यूनाधिकभावातीतमधुरमनोहरगम्भीरविशदवागतिशयसम्पन्न: शतेन्द्रप्राप्तपूजातिशयो महावीरोऽर्थकर्ता । क्षेत्रतोऽर्थकर्ता पञ्चशैलपुरे (राजगृहनगरसमीपे) रम्ये पर्वतोत्तमे विपुलाचले भव्यलोकानां हितार्थ महावीरेणार्थः कथितः । इत्थं स एव विपुलाचलस्थो भव्यजीवानामर्थोपदेशको महावीरः क्षेत्रका विज्ञेयः । कालतोऽर्थकर्ताऽभिधीयते इम्मिस्से वसप्पिणोए चउत्थ-सममस्स पच्छिमे भाए। चोतीस-वास-सेसे किंचि वि सेसूणए संते ॥ वासस्स पढममासे पक्खम्मि सावणे बहुले। पाडिवद-पुव्व-दिवसे तित्थुप्पत्ती दु अभिजम्मि । आभ्यां गाथाम्यामिदमुक्तम्-अस्यामवसर्पिण्यां चतुर्थकालस्य दुःषमासुषमानामकस्यान्तिमे भागे किञ्चिन्न्यूनचतुस्त्रिशद्वर्षावशेष वर्षस्य प्रथममासे श्रावणेऽसितपक्षे प्रतिपद्दिवसे पूर्वाल्लेऽभिजिन्नक्षन्ने धर्मतीर्थोत्पत्तिः (वीरशासनोत्पत्तिः) जाता। तात्पर्य मिदं यच्छ्रावणकृष्णप्रतिपदिवसे भगवता तीर्थकरेण महावीरेण स्वदिव्यध्वनिना भव्यलोकस्य हितमुपदिष्टमिति । अतएव श्रावणकृष्णप्रतिपहिवसः समग्रजैनसंसारे 'वीरशासन-जयन्ति' इति नाम्ना पर्व प्रख्यातिमवाप। वीरजयन्तिवद्वीरशासनजयन्त्यपि सम्प्रति क्वचित्क्वचित समायुज्यते जैनैः । इदानी भावतोऽर्थकर्ता निरूप्यते-कर्मचतुष्टयमुक्तोऽनन्तचतुष्टयसम्पन्नो नवकेवललब्धिसंयुतो महावीरो भावश्रुतमुपदिशतीति भावतोऽर्थकर्ता समभिधीयते । तेन महावीरेण केवलज्ञानिना कथितार्थस्तस्मिन्नेव काले तत्रैव क्षेत्रे क्षायोपशमिकमत्यादिज्ञानचतुष्टयसम्पन्नेन जीवाजीवविषयसन्देहविनाशनार्थमुपगतवर्द्धमान-पादमूलेन गौतमेन्द्रभूतिनाऽवधारितः । इत्थं श्रुतपर्यायेण परिणतो गौतमो द्रव्यश्रुतस्य कर्ता । तस्माद् गौतमाद् ग्रन्थरचना जाता इति । तेन गौतमेन द्विविधमपि श्रुतं लोहार्यस्य संचारितम् । तेनापि जम्बूस्वामिनः । एवं परिनाटीक्रमेण एते त्रयोऽपि महाभागाः सकलश्रुतधारका भणिताः । परिपाटीक्रममनवेक्ष्य च संख्यातसहस्राः सकलश्रुतधारका वभूबुः । गौतमदेवो लोहार्यो जम्बूस्वामी चैते त्रयोऽपि सप्तविधलब्धिसम्पन्नाः सकलश्रुतपारंगता भूत्वा केवज्ञज्ञानमवाप्य निर्वृति (मुक्ति) प्रापुः । ततो विष्णुनन्दिमित्रादयः पञ्चापि चतुर्दशपूर्वधारका जाताः । तदनन्तरं विशाखाचार्यादय एकादशाचार्या एकादशानामङ्गानामुत्पादपूर्वादिदशपूर्वाणां च पारंगताः संजाताः । शेषोपरिमचतुर्णा पूर्वाणामेकदेशधराश्च । ततो नक्षत्राचार्यादयः पञ्चाचार्या एकादशानामङ्गानां पारंगताश्चतुर्दशानां च पूर्वाणामेकदेशज्ञातारः सम्भूताः। ततः सुभद्रादयश्चात्वार आचार्याः सामस्त्येनाचाराङ्गधारकाः शेषाङ्गपूर्वाणामेकदेशधारकाः समभवन् । एतेषां सर्वेषां काल: ६८३ वर्षपरिमितः । वीरनिर्वाणात् ६८३ वर्षाणि यावदङ्गश्रुतज्ञानमवस्थितम् । ततः सर्वेषामङ्गानां निखिलपूर्वाणां चैकदेशः श्रुतबोध आचार्यपरम्परया धरसेनाचार्य सम्प्राप्त इति । तेन धरसेनाचार्येण श्रुतवत्सलेनाष्टाङ्गमहानिमित्तपारतेन ग्रन्थविच्छेदो भविष्यतीति जातश्रुतविच्छेदभयेन महिमानगर्यां समायोजिते विशिष्टधर्मोत्सवे सम्मिलितानां दक्षिणापथाचार्याणां समीपे एको लेखः (पत्रात्मकः) प्रेषितः । तल्लेखात् धरसेनाचार्यस्य श्रुतरक्षणाभिप्रायं विज्ञाय तैराचार्यविद्याग्रहण-धारणसमर्थों धवलामलबहुविधविनयविभूषिताङ्गौ सुशीलौ देश-कुल-जातिशुद्धौ सकलकलापारंगतौ द्वौ साधू धरसेनाचार्यसमीपे सौराष्ट्रदेशस्थे गिरिनगरे प्रेषितौ । निशायाः पश्चिमे प्रहरे धरसेनाचार्येणातिविनयसम्पन्नौ धवलवर्णी शुभौ द्वौ वृषभौ स्वप्ने दृष्टौ । एवंविधं सुस्वप्नं दृष्ट्वा प्रसन्नेन चेतसा धरसेनाचार्येण 'जयउ सुयदेवदा'-जयतु श्रुतदेवतेति संलपितम् । तस्मिन्नेव दिवसे प्रातः तौ द्वावपि साधू समागतौ । ताभ्यां धरसेनाचार्यस्य पूर्णतया विनयाचारो विहितः । तथापि तयोः परीक्षणार्थ सुपरीक्षा हि हृदयसन्तोषकरेति सञ्चिन्त्य हीनाधिकवर्णयुक्ते द्वे विद्ये साधयितुं प्रदत्ते । तो प्रत्युक्तं चैते विद्ये षष्ठोपवासेन साधनीये । तदनन्तरं तयोर्दै विकृताङ्गे विद्यादेवते Page #3 -------------------------------------------------------------------------- ________________ दृष्टिपथमाजग्मतुः / तयोर्मध्ये एकोद्गतदन्ता अपरेकनेत्रा / न चैषो देवतानां स्वभाव इति विचिन्त्य मंत्रव्याकरणशास्त्रकुशलाभ्यां ताभ्यां ते विद्ये शुद्धीकृत्य पुनः साधिते / ततश्च ते विद्यादेवते स्वस्वभावस्थिते दृष्टे / पुनस्ताभ्यां सर्वमेतद्वृत्तं वरसेनाचार्य प्रति निवेदितम् / धरसेनाचार्येण ज्ञातश्रुतग्रहणयोग्यताविशिष्टपात्रेण सन्तुष्टेन शुभतिथौ शुभनक्षत्रे शुभदिवसे ताभ्यां सिद्धान्तग्रन्थः प्रारब्धः / पुनः क्रमेण व्याचक्षमाणेन तेन धरसेनाचार्येणाषाढमासशुक्लपक्षकादशम्यां पूर्वाह्न ग्रन्थः समाप्ति नीतः। तेन सन्तुष्टभूत विशेषैर्देवैस्तदा तयोर्मध्ये एकस्य बलि (नैवेद्य) पुष्पादिभिः महती पूजा कृता / तेनाचार्येण धरसेनेनैकस्य भूतवलोति नाम कृतम् / अपरस्य भूतविशेषैर्देवैरेव पूजितस्य समीकृतास्तव्यस्तदन्तस्य पुष्पदन्त इति संज्ञा कृता / एताभ्यामेवाचार्याभ्यां षट्खण्डागमस्य धरसेनाचार्यतः पठितस्य ग्रन्थ-रचना कृता / यद्यपि अल्पायुष्केण पुष्पदन्ताचार्येण विंशतिप्ररूपणासमन्वितसत्प्ररूपणाया एव सूत्राणि रचितानि, भतबल्याचार्यस्य सविधे जिनपालितद्वारा प्रेषितानि च, भगवता भूतबलिभट्टारकेण महाकर्मप्रकृतिप्रामृतस्य विच्छेदो भविष्यतीति विचार्य द्रव्यप्रमाणानुगमादिनिखिलषट्खण्डागमश्रुतस्य निबन्धनं कृतम्, तथापि खण्डसिद्धान्तापेक्षया तावुभावाचार्यों श्रुतस्य (षट्खण्डागमस्य) कर्तारावभिधीयते / ___ एवं मूलग्रन्थकर्ता वर्द्धमानभट्टारकः, अनुग्रन्थकर्ता गौतमस्वामी, उपग्रन्थकर्तारो भूतबलि-पुष्पदन्तादयो वीतराग-द्वेष-मोहा मुनिवरा इत्यवधेयम् / श्रुतनिवन्धनविषयकमेतावन्मात्रमेव वृत्तं वीरसेनाचार्येण धवलाटीकायां निबद्धमस्ति / अतस्तदुक्तवचनात् श्रुतारम्भतिथिर्न विज्ञायते / तस्मात्तु केवलमिदमेवावगम्यते यच्छुभतिथौ शुभनक्षत्रे शुभवारे ताभ्यां श्रुताभ्यासः समारब्धः / आषाढमासशुक्लपक्षकदशम्यां च समाप्ति नीतः / किन्तु श्रीमदिन्द्रनन्दिकृते श्रुतावतारे पुस्तकाकारेण निबद्धस्य श्रुतस्य (षट् खण्डागमस्य) तिथेः स्पष्टतयोल्लेखः कृतः / तथा हि ज्येष्ठसितपक्षपञ्चम्यां चातुर्वर्ण्यसंघसमवेतः / तत्पुस्तकोपकरणैय॑धात् क्रियापूर्वकं पूजाम् // श्रु तपञ्चमीति तेन प्रख्याति तिथिरियं परामाप / अद्यापि येन तस्यां श्रुतपूजां कुर्वते जैनाः / / अत एतत्प्रमाणाज्ज्येष्ठशुक्ला पञ्चमी समुपलब्धस्य निबद्धश्रुतस्य तिथिरिति निश्चीयते / अत्र सन्देहस्य किमपि कारणं नास्ति; तदवचनस्य प्रामाण्याङ्गीकारात ततोऽस्यां तिथौ श्रतपञ्चमीसमारोह: सर्वजनः समुल्लासपूर्वकं समायुज्यते /