________________
श्रुत-पञ्चमी श्रीवृषभादिवीरान्तं रागद्वेषविवजितम्।
जिनं नत्वा गुरुं चेति श्रुतं नौमि जिनोद्भवम् ॥ दिगम्बरजैनपरम्परायां महावीर-जन्यत्युत्सववदेव श्रुत-पञ्चम्युत्सवोऽपि महताऽऽदरेण प्रतिवर्ष सोल्लासं सम्पद्यते । तद्दिवसे स्वे स्वे स्थाने सर्वे जैनाः सम्भूय श्रुतपूजां प्रकुर्वते । श्रुतोत्पत्तेश्चै तिह्यमाकर्णयन्ति । तन्माहात्म्यं चावधारयन्ति । प्रसीदन्ति च मुहुर्मुहुः स्वमनस्सु । धन्योऽयं दिवसः । धन्यास्ते महाभागाः यैरस्मिन् दिवसेऽस्मत्कृते स्वहितप्रदर्शकः श्रु तालोकः प्रदत्तः । यदालोकेनाद्यावधि पश्यामो वयं स्वहितस्य पन्थानम् । यदि नाम न स्याच्छ तालोकोऽयं न जाने पथभ्रष्टाः सन्तः क्व गच्छेम वयम् । 'न हि कृतमपकारं साधवो विस्मरन्ति' इति सतां वचनमनुस्मृत्यास्माभिः श्रुतदेवताजन्मदातुः स्मरणार्थं स्वस्य कृतज्ञताप्रकाशनार्थ चेदं श्रतपञ्चमोतिपर्व सवैशिष्टयं सम्पादनीयम् । सततं श्रुताभ्यास-पठन-पाठनदत्तचेतोभिश्च भाव्यम् । सर्वत्र च श्रुतप्रचारः कार्यः । केवलमेकत्र स्थाने शास्त्राण्येकीकृत्य तेभ्य अर्घप्रदानं न श्रुतपूजा श्रु तोपासना वा, अपितु नित्यं प्रसन्नेन मनसा शास्त्राध्ययनं गृहे गृहे शास्त्रप्रवेशः शास्त्रदानं शास्त्रप्रकाशनं चेत्येवं श्रुतप्रचारः श्रुतप्रसारो वा श्रुतपूजा विज्ञेया । श्रावकस्य षडावश्यकेषु 'देवपूजा गुरूपास्ति स्वाध्यायः संयमस्तपः ।' इत्यादिना स्वाध्यायस्यावश्यककर्त्तव्यत्वेन निर्देशः कृतः । श्रावकाचार-साध्वाचारमर्मज्ञेन विदुषा श्रीमदाशाधरेण श्रुतपूजा देवपूजातुल्यैवाभिहिता
ये यजन्ते श्रुतं भक्त्या ते यजन्ते जिनमञ्जसा। न किञ्चिदन्तरं प्राहुराप्ता हि श्रुतदेवयोः ।।
-सागारधर्मामृते २-४४ । स्वामिसमन्तभद्राचार्येणाप्युक्तं देवागमेस्याद्वाद-केवलज्ञाने
सर्वतत्त्व-प्रकाशने। भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥१०५॥ अतएव पूजा-भक्त्यादिषु श्रुतस्यैव भक्तिः प्रार्थिता, न मत्यादिचतुष्टयस्य, संसारवारकत्वाभावात् मोक्षकारणत्वाभावाच्च । श्रुतस्य तु तदुभयकार्यकारित्वात् । तथा हि
श्रुते भक्तिः श्रु ते भक्तिः श्रु ते भक्तिः सदाऽतु मे।
सज्ज्ञानमेव संसारवारणं मोक्षकारणम् ।। इत्थं श्रुतस्य माहात्म्यं विदितमेव ।
साम्प्रतं श्रुतोत्पत्तेः किञ्चिदैतिह्यं विलिख्यते । यद्यपि श्रुतावतारादिग्रन्थेषु श्रुतोत्पत्तेरैतिां निबद्धमेव तथापि सर्वजनावबोधार्थमत्र संक्षेपतः तन्निगद्यते । तथा हि
षट्खण्डागमस्य टीकायां धवलायां वीरसेनाचार्येण कर्तृ विवेचनप्रसङ्गेन कर्ता द्विविधः प्रोक्तः-अर्थकर्ता ग्रन्थकर्ता च । तत्रार्थकर्ता द्रव्यादिचतुष्टयापेक्षया चतुर्विधो निरूपितः-द्रव्यकर्ता क्षेत्रकर्ता कालकर्ता भावकर्ता च । अष्टादशदोषविमुक्तश्चतुर्विधोपसगंद्वाविंशतिपरीषहातिक्रान्तो योजनान्तरदरसमीपस्थाष्टादशभाषासप्तशत
-४६२ -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org