Book Title: Shrutpanchami
Author(s): Darbarilal Kothiya
Publisher: Z_Darbarilal_Kothiya_Abhinandan_Granth_012020.pdf

View full book text
Previous | Next

Page 2
________________ क्षुल्लकभाषासमन्विततिर्यग्देवमनुष्यभाषाकारन्यूनाधिकभावातीतमधुरमनोहरगम्भीरविशदवागतिशयसम्पन्न: शतेन्द्रप्राप्तपूजातिशयो महावीरोऽर्थकर्ता । क्षेत्रतोऽर्थकर्ता पञ्चशैलपुरे (राजगृहनगरसमीपे) रम्ये पर्वतोत्तमे विपुलाचले भव्यलोकानां हितार्थ महावीरेणार्थः कथितः । इत्थं स एव विपुलाचलस्थो भव्यजीवानामर्थोपदेशको महावीरः क्षेत्रका विज्ञेयः । कालतोऽर्थकर्ताऽभिधीयते इम्मिस्से वसप्पिणोए चउत्थ-सममस्स पच्छिमे भाए। चोतीस-वास-सेसे किंचि वि सेसूणए संते ॥ वासस्स पढममासे पक्खम्मि सावणे बहुले। पाडिवद-पुव्व-दिवसे तित्थुप्पत्ती दु अभिजम्मि । आभ्यां गाथाम्यामिदमुक्तम्-अस्यामवसर्पिण्यां चतुर्थकालस्य दुःषमासुषमानामकस्यान्तिमे भागे किञ्चिन्न्यूनचतुस्त्रिशद्वर्षावशेष वर्षस्य प्रथममासे श्रावणेऽसितपक्षे प्रतिपद्दिवसे पूर्वाल्लेऽभिजिन्नक्षन्ने धर्मतीर्थोत्पत्तिः (वीरशासनोत्पत्तिः) जाता। तात्पर्य मिदं यच्छ्रावणकृष्णप्रतिपदिवसे भगवता तीर्थकरेण महावीरेण स्वदिव्यध्वनिना भव्यलोकस्य हितमुपदिष्टमिति । अतएव श्रावणकृष्णप्रतिपहिवसः समग्रजैनसंसारे 'वीरशासन-जयन्ति' इति नाम्ना पर्व प्रख्यातिमवाप। वीरजयन्तिवद्वीरशासनजयन्त्यपि सम्प्रति क्वचित्क्वचित समायुज्यते जैनैः । इदानी भावतोऽर्थकर्ता निरूप्यते-कर्मचतुष्टयमुक्तोऽनन्तचतुष्टयसम्पन्नो नवकेवललब्धिसंयुतो महावीरो भावश्रुतमुपदिशतीति भावतोऽर्थकर्ता समभिधीयते । तेन महावीरेण केवलज्ञानिना कथितार्थस्तस्मिन्नेव काले तत्रैव क्षेत्रे क्षायोपशमिकमत्यादिज्ञानचतुष्टयसम्पन्नेन जीवाजीवविषयसन्देहविनाशनार्थमुपगतवर्द्धमान-पादमूलेन गौतमेन्द्रभूतिनाऽवधारितः । इत्थं श्रुतपर्यायेण परिणतो गौतमो द्रव्यश्रुतस्य कर्ता । तस्माद् गौतमाद् ग्रन्थरचना जाता इति । तेन गौतमेन द्विविधमपि श्रुतं लोहार्यस्य संचारितम् । तेनापि जम्बूस्वामिनः । एवं परिनाटीक्रमेण एते त्रयोऽपि महाभागाः सकलश्रुतधारका भणिताः । परिपाटीक्रममनवेक्ष्य च संख्यातसहस्राः सकलश्रुतधारका वभूबुः । गौतमदेवो लोहार्यो जम्बूस्वामी चैते त्रयोऽपि सप्तविधलब्धिसम्पन्नाः सकलश्रुतपारंगता भूत्वा केवज्ञज्ञानमवाप्य निर्वृति (मुक्ति) प्रापुः । ततो विष्णुनन्दिमित्रादयः पञ्चापि चतुर्दशपूर्वधारका जाताः । तदनन्तरं विशाखाचार्यादय एकादशाचार्या एकादशानामङ्गानामुत्पादपूर्वादिदशपूर्वाणां च पारंगताः संजाताः । शेषोपरिमचतुर्णा पूर्वाणामेकदेशधराश्च । ततो नक्षत्राचार्यादयः पञ्चाचार्या एकादशानामङ्गानां पारंगताश्चतुर्दशानां च पूर्वाणामेकदेशज्ञातारः सम्भूताः। ततः सुभद्रादयश्चात्वार आचार्याः सामस्त्येनाचाराङ्गधारकाः शेषाङ्गपूर्वाणामेकदेशधारकाः समभवन् । एतेषां सर्वेषां काल: ६८३ वर्षपरिमितः । वीरनिर्वाणात् ६८३ वर्षाणि यावदङ्गश्रुतज्ञानमवस्थितम् । ततः सर्वेषामङ्गानां निखिलपूर्वाणां चैकदेशः श्रुतबोध आचार्यपरम्परया धरसेनाचार्य सम्प्राप्त इति । तेन धरसेनाचार्येण श्रुतवत्सलेनाष्टाङ्गमहानिमित्तपारतेन ग्रन्थविच्छेदो भविष्यतीति जातश्रुतविच्छेदभयेन महिमानगर्यां समायोजिते विशिष्टधर्मोत्सवे सम्मिलितानां दक्षिणापथाचार्याणां समीपे एको लेखः (पत्रात्मकः) प्रेषितः । तल्लेखात् धरसेनाचार्यस्य श्रुतरक्षणाभिप्रायं विज्ञाय तैराचार्यविद्याग्रहण-धारणसमर्थों धवलामलबहुविधविनयविभूषिताङ्गौ सुशीलौ देश-कुल-जातिशुद्धौ सकलकलापारंगतौ द्वौ साधू धरसेनाचार्यसमीपे सौराष्ट्रदेशस्थे गिरिनगरे प्रेषितौ । निशायाः पश्चिमे प्रहरे धरसेनाचार्येणातिविनयसम्पन्नौ धवलवर्णी शुभौ द्वौ वृषभौ स्वप्ने दृष्टौ । एवंविधं सुस्वप्नं दृष्ट्वा प्रसन्नेन चेतसा धरसेनाचार्येण 'जयउ सुयदेवदा'-जयतु श्रुतदेवतेति संलपितम् । तस्मिन्नेव दिवसे प्रातः तौ द्वावपि साधू समागतौ । ताभ्यां धरसेनाचार्यस्य पूर्णतया विनयाचारो विहितः । तथापि तयोः परीक्षणार्थ सुपरीक्षा हि हृदयसन्तोषकरेति सञ्चिन्त्य हीनाधिकवर्णयुक्ते द्वे विद्ये साधयितुं प्रदत्ते । तो प्रत्युक्तं चैते विद्ये षष्ठोपवासेन साधनीये । तदनन्तरं तयोर्दै विकृताङ्गे विद्यादेवते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3