Book Title: Shilparatna Part 2 Author(s): Shreekumar K Sabhatsav Shastri Publisher: Shreekumar K Sabhatsav Shastri View full book textPage 9
________________ निवेदना। उत्तरभागोऽयमितः प्रकाशितस्य श्रीकुमारकृतेः शिल्परत्नस्य, यो बिम्बसाधनादिशस्त्रलक्षणान्तरध्यायैः पञ्चत्रिंशता सम्पुटितः। - इदं च रत्नं मान्त्रिकाणां तान्त्रिकाणां च सर्वदा हृदि धार्य रुचिमत् किमप्यनर्घ भूषणम् । प्राक्तनैर्मतङ्गभृगुमुख्यैमुनिमुख्यैदृष्टम्, अक्तिनैः श्रीनारायणरविप्रभृतिभिः पण्डितप्रकाण्डैधृष्टं, श्रीकुमारेण समुत्तेज्य संसाधितं, साम्प्रतिकश्रीवश्विराज्यान्तर्गतस्य अम्बलप्पुळदेशस्य पूर्वाधिपतिश्रीदेवनारायणसन्निधावुपट्टतमद्य अनन्तशवनसंस्कृतग्रन्थावलेरलङ्कारतामधिगतमिति स एष आगमप्रकारोऽस्य रत्नस्य । अस्य प्रणेता श्रीकुमारः पूर्वभागस्योपक्रमे ---- "सम्पूज्यते सदसि भार्गवसृष्टभूभा गेऽस्मिन् बुधैः सकलशिल्पकथासु योऽसौ । तं मे नमामि पितरं भृगुवंशजातं शश्वत् स्वपुत्रहितपूरणजागरूकम् ॥" (पा. २. श्लो० ६) इति, उपसंहारे"श्रीरामपुत्रेण भार्गवगोत्रसम्भूतभूदेवेन श्रीकुमारनामधेयेन श्रीदेवनारायणराजचूडामणिपादसेवकेन लिखितमिदम्' इति च दृश्यमानाभ्यां भागाभ्यां केरलीयः कोऽपि भृगुवंशाभिजनो भूदेव इति ज्ञायते । श्रीदेवनारायणाश्रयमाण प्रक्रियासर्वस्वकारश्रीनारायणमहपादोपजीव्यं श्रीदेवनारायणं सम्मत्य क्रिस्त्वब्दीयषोडशशतकान्तिमभागोऽस्य जीवितसमय इति पूर्वभागनिवेदनायां निरूपितं दृश्यते । इदं – “अम्बलप्पुळ-देशाधिपतीनां राज्ञां देवनारायणाख्यातिराधिपत्यस्थानप्रयुक्तैव न व्यक्तिप्रयुक्ते"ति प्रसिद्धेः प्रबलतरमुपष्टम्भकमन्यत् किमपि प्रमाणं प्रतीक्षमाणं मन्ये न सद्यो व्यवस्थापनमर्हति ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 282