Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir भूत यात्रास्पर्शनादितीर्थ भूमिश्च न वर्तते । एतादृशसुमहिम शालिपरमप्रभावनासम्पन्नं विशिष्टशुद्ध-शुभाऽध्यवसाय प्राप्तये उपयोगकर्मनिर्जरार्थं विशिष्टतमक्षेत्राबलम्बनरूपै तच्छ्रीषिमलाचलक्षेत्रप्रभावेण बहूनां पुण्यशालिनां सुविशदभावाध्यवसायप्राप्तिश्च सुतरां भवत्येवेत्यतः पारगत गदितागमनानुसारि श्रद्धालुजनेषु " श्रीशत्रुज्जयसमंतीर्थं न भूतं न भविष्यती "ति सुक्तिः सुप्रसिद्धतरा वर्त्तते । [4] www.kobatirth.org अत एव श्रीमज्जिनेन्द्रशासन - धुराधरणधौरेयमनोबलभ्राजिष्णुनिष्कारणकरुणावरुणालय-मुमुक्षुभव्यजीवजीवजीवन - जीवातु समजिनपतिगदितविशुद्धात्मस्वरूपपरिचायक जिनवाणिमर्मस्पर्शि सुदेशनादक्ष - सीमातीतवर्णनातिगगुणगरिमाञ्चित - सुविशुद्धक्रियासम्राग्ज्ञानपरिपूत-श्रीमत्तपागणगगनार्हमणि समप्रभयथार्थाभिधानुगुणचिरप्ररूढ - कर्मप्र पञ्चोच्छेदनक्षम धर्मघोषकरणप्रत्यल-सुधीराञ्चितधिषणाप्राग्भारपराभूत सुरगुरुसुरगुरुपूजिताऽहर्निश स्मरणीयनामधेयैः श्रीमद्भिः धर्मघोषसूरीश्वरमतल्लजैः विषमारकालसहज - मेघा-श्रद्धाऽऽयु-र्धारणाशक्तिह्रासमवगत्य सर्वजीवात्मतुल्यभावप्रकर्षेण भववनप्रजायमानममतारण्यानी समूलङ्कापोच्छेदनसमजिनशासनाराधनासुभगाध्यवसायनैर्मल्यप्रवृद्धेन भावदयारूपेण विशुद्धपरिणामवातेन मनुजत्वाऽऽर्यक्षेत्रोत्तमकुलपञ्चेन्द्रियपाटव सद्धर्माराधनसफलसामग्री परिकलित श्राद्धकुलोत्पत्तिसन्मार्गश्रवणादि यथोत्तरदुर्लभतमधर्माङ्गप्राप्तिसनाथाराधकपुण्यात्मनां श्रेयः प्रेप्सुनां हिताय प्रत्नातिप्रत्नपूर्वगतोधृतवृद्ध श्रीशत्रुञ्जयलघुकल्पः प्रग्रथितः । यमुपजीव्य विषमभववारिधिनिधिमज्जज्जन्तूद्धारे यानपात्रायमानस कलभुवनानन्यश्रेष्ठं तीर्थाधिराजं श्रीसिद्धगिरिराजं संस्मरेयुः शब्दकलेवरलघुतयामुखपाठकरणेन च प्रत्यहं कल्पपठितं स्वात्मानं गिरिराजसंस्मरणोद्भवविशुद्धपरिणामवातेन विषमेभ्यः कर्म निगडेभ्यो मोचयेयुः इति । परं संक्षिप्तरुचीनां परमपवित्र श्रीशत्रुज्जयतीर्थ राजस्मृत्याऽन्तःकरणं गिरिराजस्पर्शनाभावनाबलेन विनिर्मलीकृत्य श्रीविमलाद्रि For Private and Personal Use Only [५]

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 581