Book Title: Shastra Sandesh Mala Part 09
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________ कर्मोपक्रमयोरात्मदेहयोर्द्रव्यभावयोः। . ज्ञानचारित्रयोर्भोगयोगयोः श्रीगिरोरपि .. // 7466 // एकैकं वस्त्ववष्टभ्य कुर्युः के केऽत्र नो कलिम् / / अयं तत्र परित्यक्तद्वन्द्वस्तेन सदा सुखी // 7467 // यद्यत्संसारिभिर्जीवैः सुखाय परिकल्पितम् / .. तन्मेने तेन दुःखाय ततो विश्वविलक्षणः // 7 / 468 // तन्नास्ति भूभुजि न चक्रिणि नापि देवे, नेन्द्रे कषायविषयाकुलचित्तवृत्तौ यत्तत्र नित्यसुखमस्ति निरस्तशङ्कासंकल्पशल्यधृतिसम्मिलितस्य तस्य वेत्ति ज्ञानादनुभवति च स्वात्मना तस्य सौख्यं, वक्तुं शक्तो न भवति पुनः सर्ववेद्यप्यनन्तम् / यस्माद्वाणी क्रमपरिणमद्वर्णसंघातरूपा, . तस्याप्यायुः स्पृशति न परं पूर्वकोटेविभागम् // 7/470 // कथं सुखं तस्य नयन्ति वाक्पथं, बुधाः सुधातोऽभ्यधिकं विकर्मणः। अनन्तभागाधिकभोगभाजिनो, न यस्य देवा लवसप्तमा अपि७४७१ नृपेणानीतोन्तःपुरमटवितः कोऽपि शबरः, कृतस्तद्ज्ञैर्नानाविषयसुखभङ्गीषु निपुणः / पुनः प्राप्तोऽटव्यां निजसुखमसत्यामुपमितौ, पुरः स्वानां जानन्नपि कथमहो तत्कथयति // 7472 // एवं भवस्थाङ्गिषु भुक्तवत्सु, संक्लेशसाध्यानि सदा सुखानि / कयोपमित्या स सुखं शिवस्य, श्रोतुः पथं प्रापयति प्रतीतेः 7473 इष्टान्नपानवसनाभरणाङ्गरागस्त्रीभिः सुखं स्फुरति यत् किल कृत्रिमं तत् / आत्मस्वरूपमनिमित्तमनन्यहार्य, तस्यास्ति यत्सुखमकृत्रिमतदेव यतःस्मृतः स्याज्जगतां स योगक्षेमाय तज्जल्पत लोकनाथम् / देवाधिदेवं च यदन्यदेवान्, करोत्यधः प्राप्य परं पदं सः 7475 310
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/386db07c151e4640256563cfda810feb3df5a21ca966e49d99fc011034f895e8.jpg)
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330