Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 190
________________ [७९] प्रमाणस्यास्य " नास्ति सर्वज्ञः” इत्यधिकृतस्याभावस्य प्रत्यायकत्वे " नास्ति देवदत्तः" इत्येवं प्रवृत्तौ प्रतिरोधस्य कस्यचिदभावात्तथाऽपि प्रवृत्तिर्दुरिवेतिभावः । अधिकृतज्ञानस्याक्षव्यापारजन्यत्वं वारयति-नचेदमक्षेत्यादि-वस्तुनिभावात्मनि सति तज्झा. नमक्षव्यापारजं भवति, अभावात्मनि पुनस्तस्मिन् नास्त्यक्षव्यापार इति भावः । कारणान्तरमुपन्यस्यति-अरूपेत्यादि । विद्यमानेऽपि कचिद्वस्तुनि अक्षाप्रवृत्तिदर्शनादक्षव्यापारजन्यत्वं सर्वथाऽप्यधिकृतज्ञानस्य नास्तीति दर्शयति-अक्षस्य चेत्यादिना । ननु चक्षुःसंयुक्तविशेषणतात्मना सन्निकर्षेण “ घटाभाववभूतलम्" इत्यादौ घटाभावस्य यथा प्रतीतिस्तथो सर्वज्ञाभावस्यापि जायतामित्याशङ्कय समाधत्ते-नचेत्यादिना । ननु कस्मिंश्चिदपि सम्बन्धे सति सम्बन्धप्रतियोगिनो विशेषणत्वं भवेदित्याशङ्का सम्बन्धाभावव्यवस्थापनेन निराकरोति-सम्बन्धाभावादित्यादिना ५५- (मूलम् ) सम्बन्धाभावात् तादात्म्यतदुत्पत्त्यनु पपत्तिः, विशेषणशेविशेष्यभावस्य च तदप्रत्यक्षतया कल्पनायोगात्, वस्तुधर्मस्य च एकान्ततुच्छत्वाभावतः स्वराद्धान्तविरोधाभावः, तादात्म्यतदुत्पत्त्यनुपपत्तेःसम्बन्धाभावादित्यन्वययोजना। उपसंहरति-विशेषणविशेष्यभावस्य चेत्यादिना । तदप्रत्यक्षतयासर्वज्ञाप्रत्यक्षतयेत्यर्थः । घटस्य प्रत्यक्षत्वेन तदभावस्य भूतलेन विशेषणविशेष्यभावः सम्बन्धः स्वीक्रियते प्रकृते तु सर्वज्ञस्यैवा. प्रत्यक्षत्वेन तदभावस्य केनचिदपि विशेषणविशेष्यभावस्य दुरुपपादत्वमिति भावः । अथेदानीं सर्वज्ञाभावस्य वस्तुधर्मत्वं स्वी

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244