Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[१०४] न यतो वीतरागत्वे, तथा चेष्टोपपद्यते । क्लिष्टा प्रयोजनाभावा-न्ननु तत् किन्न निश्चयः ॥ ॥४२॥
( अन्वयः ) यतः, वीतरागत्वे, प्रयोजनाभावात् , क्लिष्टा, तथाचेष्टा, न, उपपद्यते, तत, ननु, निश्चयः, किम् , न ।
वृत्तिः-यतः-यस्माद्धेतोः । वीतरागत्वे-रागराहित्ये । प्रयोजनाभावात्-फलाभावात् । क्लिष्टा-क्लेशावहा । तथाचेष्टा-बुद्धिपूर्वकान्यथाकरणादि । न-नहि । उपपद्यते-उपपन्ना भवति । तत्-तस्माद्धेतोः । ननु-निश्चयेन । निश्चयः-वक्तृत्वाभावादिनिर्णयः। किम्-कथम् । न-नहि । अपि तु तथानिश्चयो भवेदेवेति वक्तत्वादिदर्शनेन सर्वज्ञत्वमनुपपन्नं स्यादिति भावः ॥ ४२ ॥
सिद्धान्ती समाधत्तेतथानामस्वभावत्वे, भवोपग्राहिकर्मणः । . कदाचिदुचितैषैव, ततः किं नोपपद्यते ॥ ॥४३॥
( अन्वयः) भवोपप्राहिकर्मणः, तथानामस्वभावस्वे कदाचित्, एषा, उचिता, एव, ततः, किम , न, उपपद्यते ? ॥
वृत्तिः-भवोपप्राहिकर्मणः-संसारसमर्थककर्मणः सकाशात् । तथानामस्वभावत्वे-तादृशनामस्वभावतायां सत्याम् । कदाचित् जातुचित । एषा-इयम् चेष्टेति यावत् । उचिता-योग्या। एव-खलु । ततः-तस्माद्धेतोः। किम्-कथम् । न-नहि । उपपद्यते-युज्यते, अपितूपपद्यत एवेति ज्ञानवैराग्यादिजनितं वक्तृत्वादिकं सर्वज्ञेऽपि संभवन्न तस्मिन् सर्वज्ञत्वाभावं साधयितुमर्हतीति भावः ॥ ४३ ॥

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244