Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः । सप्तभंगीतरंगिण्याः भूमिका। " सप्तभंगीतरंगिणी" नामाऽयं जैनग्रन्थः 'तंजा' नगरसमी पर्ति 'वीर' (वीरापुरं) ग्रामवासिना विमलदासेन विरचितेत्य वगम्यते । यद्यपि ग्रन्धान्ते “विमलदासेन सप्तभंगीनाम तर्क ग्रन्धो लिखितः" इति पंक्ति दृश्यते । तथापि प्राचीन ग्रंन्धकारै बहुभि स्स्वनच्यानुसन्धान परै स्स्वकृतग्रन्थे ग्वेवमेव विलेखनस्य बहुशो दृश्यमानत्वा दिदमपि नैच्यमनुसन्दधानेना नेनैवं लिखितमिति निश्चित्यास्य ग्रन्धस्य विमलदासप्रणीतत्वमेव निश्चिनुमहे । स्वस्यवीरनाम ग्रामवासित्वंचायं स्वयमेवान्ते लिखति । अयं कदा कस्य कुले जातइति तु नास्माभि रय निर्णेतुं शक्यते। अस्यचैकमेव पुस्तकं-के-सम्परकुमार चक्रवर्तिनाम्ना ९-११-१८९८० दिने लिखितं चेन्नपुरस्थ राजकीय लिखित प्राचीन पुस्तकशाला(Government Oriental Manuscripts Library Madras ) स्थ पुस्तक प्रतिकृतिरूपं श्रीमता नेल्लूविभागान्तर्गत 'ओङ्गोल्' स्थाने उपमाण्डलिक [ सकलेक्टर ] पदभाजा वेणुगोपाल भेष्ठिना प्रहित माश्रित्य तस्यैव श्रेष्ठिनः प्राचीनग्रन्ध प्रचारणोत्साहिनः प्रोत्साहनेन यथाबलं संशोधनं क्वचिदेव टिप्पण्या लंकरणं चाकारि ॥ __ कार्यवशाच्च प्रोषिते ध्वस्मासु ग्रन्थस्यास्य मुद्रणे शोधनादिषु तस्यैव श्रेष्टिनो गुणपक्षपातेना स्मासुच निरतिशयेन सौहृदेन बहुमुख मवहितवतां श्रीमतां श्रीकांचीनगरस्थ ' श्रीशठकोपनिलय' नामक संस्कृतविद्याशालाप्रधानाध्यापकता मासेदुषा मस्मत्प्रियसुहृदां श्री श्रीशैल तातार्याणा मुपकार ममुं सततं स्मराम स्तेषुच वहामः कार्बज्झ्यम् । इति निवेदयति प्र - अनन्ताचार्यः, शास्त्रमुक्तावळ्याः, मंजुभाषिण्याः, न्यायरत्नावळ्या श्व संपादकः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61