Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
तदनुजो मनुजोत्तमवंदितः, समभवद्विमलेंदुमुनीश्वरः । यदुपदेशगिरः परिपीयकैरमृतपानविधौ न घणायितम् ॥ ततोऽजनि श्रीगुणेशखराख्यः, सूरिः सुशर्म्माभिधपत्तने यः । शृंगारचंद्र क्षितिभृत्सभायां यत्रावलंबैः कुदृशो जिगाय ॥ तत्पट्टाम्बुजराजहंससदृशः सिद्धान्तपारंगतः, श्रीमान्नंदति सैष संघतिलकः सूरीश्वरः संप्रति । यो वादे विविधान् बुधानतिबुधान् बुद्धिप्रबंधैरलं, जित्वा कीर्तिभरैः पिपर्त्ति भुवनं कर्पूरपूरप्रभैः ॥
श्रीवीरशासनमहोदधितः प्रसूतः प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्यां । माद्यन्महः प्रसरनाशिततामसोऽस्ति, श्रीचंद्रगच्छ इति चंद्र इवाद्भुत श्रीः ॥ १ ॥ तत्रासीद्धरणेन्द्रवन्द्यचरणः श्रीवर्द्धमानो गुरुस्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरः शेखरः । तच्छिष्योऽभयदेवसूरिरभवद्रङ्गन्नवाङ्गीमहावृत्तिस्तम्भनपार्श्वनाथजिनराड्मूर्त्तिप्रकाशैककृत् ॥ २ ॥ तत्पट्टपूर्वाचलचूलिकायां, भास्वानिव श्रीजिनवल्लभाख्यः । | सच्चक्रसम्बोधनसावधानबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३ ॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणी स्तत्पादाम्बुजराजहंससदृशः श्रीपद्मचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत्कलालङ्कृतः ॥ ४ ॥ पट्टे तदीयेऽभयदेवसूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः ॥ ५ ॥ तत्पादाम्भो| जभृङ्गोऽजनि जिनसमयाम्भोधिपाथोधिजन्मा, सूरीन्द्रो देवभद्रोऽनुपमशमरमाराममेधोपमानः । तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्डमार्त्तण्डकल्पः, कल्पद्रुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥ ६ ॥ ज्योतिः स्तोभैरमानैः प्रतिहतजगतीवर्त्तितेजखितेजःस्फूर्त्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिर्विमलशशिगुरुश्चाप्रमेयप्रभावौ जातौ श्रीराजहंसाविव भविकजनव्यूहबो
tional
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 506