SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Jain Education तदनुजो मनुजोत्तमवंदितः, समभवद्विमलेंदुमुनीश्वरः । यदुपदेशगिरः परिपीयकैरमृतपानविधौ न घणायितम् ॥ ततोऽजनि श्रीगुणेशखराख्यः, सूरिः सुशर्म्माभिधपत्तने यः । शृंगारचंद्र क्षितिभृत्सभायां यत्रावलंबैः कुदृशो जिगाय ॥ तत्पट्टाम्बुजराजहंससदृशः सिद्धान्तपारंगतः, श्रीमान्नंदति सैष संघतिलकः सूरीश्वरः संप्रति । यो वादे विविधान् बुधानतिबुधान् बुद्धिप्रबंधैरलं, जित्वा कीर्तिभरैः पिपर्त्ति भुवनं कर्पूरपूरप्रभैः ॥ श्रीवीरशासनमहोदधितः प्रसूतः प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्यां । माद्यन्महः प्रसरनाशिततामसोऽस्ति, श्रीचंद्रगच्छ इति चंद्र इवाद्भुत श्रीः ॥ १ ॥ तत्रासीद्धरणेन्द्रवन्द्यचरणः श्रीवर्द्धमानो गुरुस्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरः शेखरः । तच्छिष्योऽभयदेवसूरिरभवद्रङ्गन्नवाङ्गीमहावृत्तिस्तम्भनपार्श्वनाथजिनराड्मूर्त्तिप्रकाशैककृत् ॥ २ ॥ तत्पट्टपूर्वाचलचूलिकायां, भास्वानिव श्रीजिनवल्लभाख्यः । | सच्चक्रसम्बोधनसावधानबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३ ॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणी स्तत्पादाम्बुजराजहंससदृशः श्रीपद्मचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत्कलालङ्कृतः ॥ ४ ॥ पट्टे तदीयेऽभयदेवसूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः ॥ ५ ॥ तत्पादाम्भो| जभृङ्गोऽजनि जिनसमयाम्भोधिपाथोधिजन्मा, सूरीन्द्रो देवभद्रोऽनुपमशमरमाराममेधोपमानः । तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्डमार्त्तण्डकल्पः, कल्पद्रुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥ ६ ॥ ज्योतिः स्तोभैरमानैः प्रतिहतजगतीवर्त्तितेजखितेजःस्फूर्त्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिर्विमलशशिगुरुश्चाप्रमेयप्रभावौ जातौ श्रीराजहंसाविव भविकजनव्यूहबो tional For Private & Personal Use Only jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy