Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२४८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पुट्ठापुटुं वियावत्तं एवंभूतं दुयावत्तं वत्तमाणुप्पयं समभिरूढं सव्वतोभदं पणसं दुपडिग्गहं २२ । इच्चे ताई बावीसं सुत्ताई छिण्णच्छे यणइयाणि ससमयसुत्तपरिवाडीए, इच्चेताई बावीसं सुत्ताई अच्छिन्नच्छेयनइयाणि
आजीवियसुत्तपरिवाडीए, इच्चे ताई बावीसं सुत्ताई तिकणड्याणि 5 तेरासियसुत्तपरिवाडीए, इच्चे ताई बावीसं सुत्ताई चउक्कणइयाणि ससमयसुत्तपरिवाडीए । एवामेव सपुव्वावरेणं अट्ठासीती सुत्ताई भवंतीति मक्खायाई । सेत्तं सुत्ताई ।।
[टी०] से किं तं सुत्ताइमित्यादि, तत्र सर्वद्रव्य-पर्याय-नयाद्यर्थसूचनात् सूत्राणि अमून्यपि च सूत्रार्थतो व्यवच्छिन्नानि तथापि दृष्टानुसारतः किञ्चिल्लिख्यते, एतानि किल 10 ऋजुकादीनि द्वाविंशतिः सूत्राणि, तान्येव विभागतोऽष्टाशीतिर्भवन्ति, कथम् ?, उच्यते, इच्चेइयाई बावीसं सुत्ताई छिन्नच्छेयनइयाइं ससमयसुत्तपरिवाडीए त्ति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिन्नच्छेदनयो यथा धम्मो मंगलमुक्कट्ठ [दशवै० १।१] इत्यादिश्लोकः सूत्रार्थतः प्रत्येकच्छेदेन स्थितो न द्वितीयादिश्लोकमपेक्षते, प्रत्येककल्पितपर्यन्त इत्यर्थः,
एतान्येव द्वाविंशतिः स्वसमयसूत्रपरिपाट्या सूत्राणि स्थितानि, तथा इत्येतानि द्वाविंशतिः 15 सूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाट्येति, अयमर्थः- इह यो नयः
सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा धम्मो मंगलमुक्कट्ठ [दशवै० १।१] इत्यादिश्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणो द्वितीयादयश्च प्रथममिति अन्योन्यसापेक्षा इत्यर्थः, एतानि द्वाविंशतिराजीविकगोशालकप्रवर्त्तितपाषण्डसूत्रपरिपाट्या
अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योन्यमपेक्षमाणानि भवन्ति । इच्चेइयाइं इत्यादि 20 सूत्रम्, तत्र तिकनइयाई ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थः, त्रैराशिकाश्चाजीविका
एवोच्यन्ते इति। तथा इच्चे इयाई इत्यादि सूत्रम्, तत्र चउक्कनइयाई ति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना । एवमेवेत्यादिसूत्रम्, एवं चतस्रो द्वाविंशतयोऽष्टाशीतिः सूत्राणि भवन्ति । सेत्तं सुत्ताई ति निगमनवाक्यम् ।
१. अष्टाशीत्यपि च खमू० जे१ । अष्टाशीतिरेतान्यपि च खंसं० ।। २. दृश्यतां पृ०८२ पं०२० ।। ३. “मपेक्ष्यमाणो
जे२।। ४. न्यमवेक्ष्यमाणानि जे१,२,हे१ । न्यसावेक्ष्यमाणानि खं०॥ ५. भवंतीति खं० जे५।।

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362