SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पुट्ठापुटुं वियावत्तं एवंभूतं दुयावत्तं वत्तमाणुप्पयं समभिरूढं सव्वतोभदं पणसं दुपडिग्गहं २२ । इच्चे ताई बावीसं सुत्ताई छिण्णच्छे यणइयाणि ससमयसुत्तपरिवाडीए, इच्चेताई बावीसं सुत्ताई अच्छिन्नच्छेयनइयाणि आजीवियसुत्तपरिवाडीए, इच्चे ताई बावीसं सुत्ताई तिकणड्याणि 5 तेरासियसुत्तपरिवाडीए, इच्चे ताई बावीसं सुत्ताई चउक्कणइयाणि ससमयसुत्तपरिवाडीए । एवामेव सपुव्वावरेणं अट्ठासीती सुत्ताई भवंतीति मक्खायाई । सेत्तं सुत्ताई ।। [टी०] से किं तं सुत्ताइमित्यादि, तत्र सर्वद्रव्य-पर्याय-नयाद्यर्थसूचनात् सूत्राणि अमून्यपि च सूत्रार्थतो व्यवच्छिन्नानि तथापि दृष्टानुसारतः किञ्चिल्लिख्यते, एतानि किल 10 ऋजुकादीनि द्वाविंशतिः सूत्राणि, तान्येव विभागतोऽष्टाशीतिर्भवन्ति, कथम् ?, उच्यते, इच्चेइयाई बावीसं सुत्ताई छिन्नच्छेयनइयाइं ससमयसुत्तपरिवाडीए त्ति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिन्नच्छेदनयो यथा धम्मो मंगलमुक्कट्ठ [दशवै० १।१] इत्यादिश्लोकः सूत्रार्थतः प्रत्येकच्छेदेन स्थितो न द्वितीयादिश्लोकमपेक्षते, प्रत्येककल्पितपर्यन्त इत्यर्थः, एतान्येव द्वाविंशतिः स्वसमयसूत्रपरिपाट्या सूत्राणि स्थितानि, तथा इत्येतानि द्वाविंशतिः 15 सूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाट्येति, अयमर्थः- इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा धम्मो मंगलमुक्कट्ठ [दशवै० १।१] इत्यादिश्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणो द्वितीयादयश्च प्रथममिति अन्योन्यसापेक्षा इत्यर्थः, एतानि द्वाविंशतिराजीविकगोशालकप्रवर्त्तितपाषण्डसूत्रपरिपाट्या अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योन्यमपेक्षमाणानि भवन्ति । इच्चेइयाइं इत्यादि 20 सूत्रम्, तत्र तिकनइयाई ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थः, त्रैराशिकाश्चाजीविका एवोच्यन्ते इति। तथा इच्चे इयाई इत्यादि सूत्रम्, तत्र चउक्कनइयाई ति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना । एवमेवेत्यादिसूत्रम्, एवं चतस्रो द्वाविंशतयोऽष्टाशीतिः सूत्राणि भवन्ति । सेत्तं सुत्ताई ति निगमनवाक्यम् । १. अष्टाशीत्यपि च खमू० जे१ । अष्टाशीतिरेतान्यपि च खंसं० ।। २. दृश्यतां पृ०८२ पं०२० ।। ३. “मपेक्ष्यमाणो जे२।। ४. न्यमवेक्ष्यमाणानि जे१,२,हे१ । न्यसावेक्ष्यमाणानि खं०॥ ५. भवंतीति खं० जे५।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy