Book Title: Samta Mahodadhi Mahakavyam
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 391
________________ ३५५ समतामहोदधिः महाकाव्यम् श्रीहेमचन्द्रसूरीशै गुरुभिः सुष्ठु शोधितम् । काव्यमिदं जिनप्रेम विजयमुनिना तथा ॥१७॥ अभ्यासार्थमिदं काव्यं, तथा तद्गुणलिप्सया । रचितं नैव पाण्डित्य प्रदर्शनकृते मया ।।१८।। कृपामाधाय विद्वांसो, मय्यत्र तु क्षतीः कृतौ । शोधयन्तु यतोऽज्ञोऽहं, भूरिदोषनिधिस्तथा ।।१९।। रचनेनाऽस्य काव्यस्य, पुण्यमवापि यन्मया । तत्सदृशगुणेनः स्यां, तेनेति प्रार्थये तु तान् ।।२०।। १. गुणेन: = गुणानामिनः-स्वामीति गुणेन: ।

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396