Book Title: Samavasaran Stotra Author(s): Arvindsuri Publisher: ZZ_Anusandhan View full book textPage 2
________________ 28 बाहुल्यमेषां धनुषां त्रयस्त्रिंशदेक[श्च]हस्तोऽङ्गुलकानि चाष्टौ । लसच्चतुर्दारविराजितानां तथोच्चता पंचधनुःशतानि ।।७।। भूमेः सहस्राणि दशैव गत्वा, सोपानकानां प्रथमोऽत्र वप्रः । धनूंषि पंचाशदतः समा भूः, सोपानकानां हि ततोऽयुताः ।।८।। द्वितीयवप्रोऽत्र तदन्तरेऽभूत्, विधिस्तु पूर्वोदित एव सर्वः। ततस्तृतीयोऽपि बभूव वप्रस्तदंतरं वा मणिपीठबंधात् ।।९।। इत्थं सहस्रा दश पंच पंच, क्रमेण शालत्रयसंगतानाम् । सोपानकानां प्रमितिस्त्वमीषां, करैकमानोन्नति-विस्तराभ्याम् ॥१०॥ प्रमाणमेतत् सकलं विबोध्यं निजैनिजैरेव करैर्जिनानाम् । देहादिवैचित्र्यत एव तेषां, न चान्यथा संगतिमंगतीदम् ।।११।। भूमितलादूर्ध्वमथाद्धयुक्तगव्यूतयुग्मं परितोऽधिरुह्य । तृतीयवप्रे बहुमध्यदेशे, ज्योतिर्जटालं मणिपीठमासीत् ।।१२।। विष्कम्भतश्चापशतद्वयं तदौन्नत्यतः श्रीजिनदेहमानम् । विरेजुरस्योपरि चारुसिंहासनानि चत्वारि मणीमयानि ॥१३।। मणीमयच्छंदकसंगतानि चाऽशोकवृक्षं परितः स्थितानि । छत्रत्रयेणोर्ध्वगतेन चन्द्रप्रभासमानधुतिना युतानि ।।१४।। सुपर्वसञ्चारितपङ्कजेषु, न्यासं दधानः क्रमपङ्कजानाम् । सिंहासनं स्वामिवरोऽथ भेजे, पूर्वामुखं पूर्वगिरि यथांशुः ॥१५॥ ततो व्यधीयन्त च शेषदिक्षु सद्व्यन्तरैस्तत् प्रतिरूपकाणि । चतुर्मुखस्तैर्भगवान् विरेजे, चतुर्विधं धर्ममिवोपदेष्टुम् ।।१६।। तत् पार्श्वयोर्यक्षवरा बभूवुः करे धरन्तो वरचामराणि । अभ्रंलिहाः स्वामिपुरो विरेजुर्महाध्वजा रत्नमयोच्चदण्डा : ।।१७।। पुरो जिनेन्द्रस्य च धर्मचक्रचतुष्टयी चारुरुचिर्बभासे । प्रख्यापयन्ती भविनां मनस्सु सद्धर्मचक्रित्वमपूर्वमस्य ।।१८।। आग्नेयका मुख्य विदिक्षु तिस्रः, प्रत्येकमस्थुश्च सभाः क्रमेण । सुसाधवः कल्पसुरांगनाश्च, साध्व्यश्च धर्मश्रवणैक-निष्णाः ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4