Page #1
--------------------------------------------------------------------------
________________
अज्ञातकर्तृक समवसरणस्तोत्र
__- सं. आ. अरविंदसूरि पचीसेक वर्ष पहेला मालगाम (राजस्थान)ना उपाश्रयमां अस्त-व्यस्त पडेलां पानाओमाथी कोई विद्वाने संग्रह करेल स्तोत्रोनां दशेक पानां मळयां. आगळना पत्रो मळ्या नथी अने मळेला पत्रोमां स्तोत्रादिना कर्तानो, संग्रहकर्तानो के लेखनसंवत् व. कशो उल्लेख नथी.
सोळमा के सत्तरमा सैकामां लखायेली प्रतना अक्षरो झीणा पण मरोडदार सुंदर छे. क्यांक क्यांक मार्जिनमां अघरा शब्दोना अर्थो के जाप आदिनी विधि बतावी छे.
दरेक पत्रनी बन्ने बाजु १९-१९ पंक्ति अने दरेक पंक्तिमा ६० जेटला अक्षसे धरावता आ पत्रोमा २२ जेटली कृतिओ छे. एमां एक मोटी शांति (भो भो भव्याः अने एक गौतमस्वामिअष्टक (श्रीइन्द्रभूति) सिवायनी कृतिओ अजाणी अने प्रायः अप्रसिध्ध छे. छेल्ली त्रणने बाद करतां बाकीनी बधी संस्कृत कृति छे. आ संग्रहनी प्रथम कृति समवसरणस्तव (संस्कृत) अहीं प्रस्तुत छे.
समवसरण-स्तोत्रम् सत्केवलज्ञानमहाप्रभाभिः प्रकाशिताशेषजगत्स्वरूपम् । स्तवीमि तं वीरजिनं सुरौघा यद्देशनासद्मनि चक्रुरेवम् ॥१॥ आयोजनं भूमितलस्य सन्मार्जनं व्यधुः वायुकुमारदेवाः । तस्यैव गन्धोदकवर्षणेन, रजःप्रशान्ति विदधुश्च मेघाः ।।२।। सरत्रमाणिक्यशिलाभिरिद्धं, विधाय तत्राऽचलपीठबन्धम् । किरन्ति पुष्पाणि विचित्रवर्णान्यस्योपरि व्यन्तरराजवर्याः ।।३।। वैमानिका ज्योतिषिकाश्च तत्र सद्भक्तिभाजो भुवनाधिपाश्च । वप्रत्रयं रत्नसुवर्णरूप्यमयं विचक्रुघुतिभासिताऽऽशम् ।।४।। आभ्यन्तरे रत्नमये विशाले, साले विरेजुः कपिशीर्षकाणि । सुरैः प्रक्लृप्तानि मणीमयानि, सद्दर्पणा: किं ननु धर्मलक्ष्म्याः ।।५।। विमध्यमे रत्नमयानि तानि हैमानि चामूनि बहिस्थवप्रे। गव्यूतमेकं धनुषां शतानि, षडेव तेषामियमन्तरुर्वी ॥६॥
Page #2
--------------------------------------------------------------------------
________________
28
बाहुल्यमेषां धनुषां त्रयस्त्रिंशदेक[श्च]हस्तोऽङ्गुलकानि चाष्टौ । लसच्चतुर्दारविराजितानां तथोच्चता पंचधनुःशतानि ।।७।। भूमेः सहस्राणि दशैव गत्वा, सोपानकानां प्रथमोऽत्र वप्रः । धनूंषि पंचाशदतः समा भूः, सोपानकानां हि ततोऽयुताः ।।८।। द्वितीयवप्रोऽत्र तदन्तरेऽभूत्, विधिस्तु पूर्वोदित एव सर्वः। ततस्तृतीयोऽपि बभूव वप्रस्तदंतरं वा मणिपीठबंधात् ।।९।। इत्थं सहस्रा दश पंच पंच, क्रमेण शालत्रयसंगतानाम् । सोपानकानां प्रमितिस्त्वमीषां, करैकमानोन्नति-विस्तराभ्याम् ॥१०॥ प्रमाणमेतत् सकलं विबोध्यं निजैनिजैरेव करैर्जिनानाम् । देहादिवैचित्र्यत एव तेषां, न चान्यथा संगतिमंगतीदम् ।।११।। भूमितलादूर्ध्वमथाद्धयुक्तगव्यूतयुग्मं परितोऽधिरुह्य । तृतीयवप्रे बहुमध्यदेशे, ज्योतिर्जटालं मणिपीठमासीत् ।।१२।। विष्कम्भतश्चापशतद्वयं तदौन्नत्यतः श्रीजिनदेहमानम् । विरेजुरस्योपरि चारुसिंहासनानि चत्वारि मणीमयानि ॥१३।। मणीमयच्छंदकसंगतानि चाऽशोकवृक्षं परितः स्थितानि । छत्रत्रयेणोर्ध्वगतेन चन्द्रप्रभासमानधुतिना युतानि ।।१४।। सुपर्वसञ्चारितपङ्कजेषु, न्यासं दधानः क्रमपङ्कजानाम् । सिंहासनं स्वामिवरोऽथ भेजे, पूर्वामुखं पूर्वगिरि यथांशुः ॥१५॥ ततो व्यधीयन्त च शेषदिक्षु सद्व्यन्तरैस्तत् प्रतिरूपकाणि । चतुर्मुखस्तैर्भगवान् विरेजे, चतुर्विधं धर्ममिवोपदेष्टुम् ।।१६।। तत् पार्श्वयोर्यक्षवरा बभूवुः करे धरन्तो वरचामराणि । अभ्रंलिहाः स्वामिपुरो विरेजुर्महाध्वजा रत्नमयोच्चदण्डा : ।।१७।। पुरो जिनेन्द्रस्य च धर्मचक्रचतुष्टयी चारुरुचिर्बभासे । प्रख्यापयन्ती भविनां मनस्सु सद्धर्मचक्रित्वमपूर्वमस्य ।।१८।। आग्नेयका मुख्य विदिक्षु तिस्रः, प्रत्येकमस्थुश्च सभाः क्रमेण । सुसाधवः कल्पसुरांगनाश्च, साध्व्यश्च धर्मश्रवणैक-निष्णाः ॥१९॥
Page #3
--------------------------------------------------------------------------
________________
29
ज्योति: पतीनां भुवनाधिपानां, सद्व्यन्तराणां च विलासवत्यः । त्रयोऽपि ते देववरास्ततोऽपि, वैमानिका मर्त्यवराः स्त्रियश्च ॥२०॥ तिर्यग्वराः सिंहमृगाहिबभ्रु-मुख्याः प्रशान्त द्वितीयेऽथ वप्रे। संत्यक्तवैरा भगवद्वचांसि, पपुः कणेहत्यकृतोद्मवक्त्राः ॥२१।। यानानि वप्रे तृतीये बभूवु नियंत्रणा नो विकथाभयं न । न मत्सरस्तत्र परस्परेणाऽभवज्जिनेन्द्रस्य कट प्रभावः ।।२२।। आसन् प्रतिद्वारमिहावलम्बि ध्वजानि चञ्चन्मणितोरणानि । पंचालिका मङ्गलकानि चाष्टौ, सत्पूर्णकुम्भा वरधूपघट्य : ।।२३।। माणिक्यवप्रे प्रतिहारूप: सौधर्मनाथो वनजाधिपश्च । द्वारेऽवतस्थे भुवनाधिपोऽथ ज्योति:पतिस्ते तु विचित्रवर्णाः ।।२४।। सौवर्णवप्रे विजया जया च, जिताभिधानाऽप्यपराजिता च । द्वारस्थिताः शस्त्रकरास्तथैता: दौवारिकत्वं विदधुर्जिनस्य ।।२५।। वप्रे बहिस्तुंबरनामदेवः खट्वांगनामा पुरुषोऽस्ति माली। एते प्रतिद्वारमुदात्तदंडाः क्रमाज्जटामंडितमौलयोऽस्थुः ॥२६॥ मणीमयच्छन्दक एव आसीदीशानकोणे जिनविश्रमाय । माणिक्यवप्रस्य बहि; सुरौधैर्विनिर्मितः किं नु निजैर्महोभिः ॥२७॥ सद्देशनासानिवृत्तरूपे, बहिस्थवप्रस्य किल प्रदेशे । द्वे द्वे भवेतां वरपुष्करिण्यौ, कोणेषु चैका चतुरस्रके स्यात् ।।२८॥ गायन्ति नृत्यन्ति च देवसंघा जिनेन्द्रसंदर्शनतोऽतिहष्टाः । प्रमोदमन्तःस्थमनासवन्तो, धर्तुं विमुञ्चन्ति च सिंहनादान् ॥२९॥ इन्द्रादिक: कोपि महद्धिकोऽथ समेति देवो यदि भक्तियुक्तः । सर्वं तदैकः कुरुते स यद्वा भक्तेः प्रभुत्वस्य च किं न साध्यम् ।।३०। अजातपूर्वः किल यत्र यत्र, महद्धिक: कोपि समेति देवः । इदं पुनस्तत्र भवेदवश्यं, सुप्रातिहार्याणि निरंतरं स्युः ॥३१॥ जगच्चमत्कारकरैश्चतुस्त्रिंशताभिरामातिशयैः समग्रैः । निर्वाणमार्ग प्रथयन् जनानां चिरं जगत्यां जयतात् जिनेन्द्रः ॥३२॥
Page #4
--------------------------------------------------------------------------
________________ 30 स सर्वभाषानुगया जिनेंद्रः सद्भाषया योजनविस्तरिण्या / संप्रीणयामास समग्रलोकं कोकं यथाऽहर्पतिरस्तशोकम् / / 33 / / इत्थं श्रीजिनराजवीर ! भवतः सम्यग् विधाय स्तवं, यत्पुण्यं समुपार्जितं किल मया भावस्य नैर्मल्यतः / तेनाऽयं सकलोऽपि भव्यनिवहस्त्वच्छासने भक्तिमान्, भूत्वा भद्रशतान्यवाप्य च परामालम्ब्यतां निर्वृतिम् // 34 // इति श्रीसमवसृतिस्तवः समाप्तः / /