Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 4
________________ किंचित्प्रास्ताविकम् । विदांकुर्वन्तु तत्रभवन्तो विविधविधकाव्यपारावारपारीणा रसिकधुरंधरा विद्वांसः, यदयं साहित्यसाराख्योऽर्वाचीनोऽपि साहित्यग्रन्थः प्राचीनालंकारसाहित्यादिग्रन्थपङ्किसमारोहणार्हस्तथैव मूर्धन्यत्वेनोरीकरणीय इति । सोऽयं केवलं नूतन इत्येव नानादरणीयः । उक्तंच 'पुराणमित्येव न साधु सर्व न चापि काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥ (मालविकाग्निमित्रं १।२) अत्र च ग्रन्थप्रणेत्रा आसेतुहिमालयं विद्वन्मान्य-काव्यप्रकाश-सरखतीकण्ठाभरण-कुवलयानन्द-रसगङ्गाधर-ध्वन्यालोक-साहित्यदर्पणादिप्राच्यग्रन्थानुसंधानेनैव तत्र तत्रोदाहरणेषु तत्तदीयोदाहरणपद्यानि संकलय्य तदूरीकृतसरण्यैवायमपूर्वोऽखिलालंकारजातसर्वखभूतो निरमायि, व्यरचि चाखिलानामनायासेनास्य बोधो भूयादिति सरसामोदाख्यातीव विस्तृतोपरिनीर्दिष्टग्रन्थोदाहरणगर्भा खोपज्ञास्य व्याख्या। पूर्व रत्नाकरालोडनबद्धपरिकरैः सुरासुरैरपूर्वश्चतुर्दशरत्नोद्धार इवात्रापि काव्य-साहित्या-लंकारशास्त्राब्ध्यालोडनबद्धपरिकरेणाप्रतिमानि संपादितान्यत्रान्वर्थकान्येव द्वादशरत्नानि । किमधिकप्रशस्तप्रशंसनेन । नहि प्रशंसोद्रेकेणाप्रशंसया वा यथावस्थिस्य ग्रन्थस्योपचयापचयौ स्याताम् । किंत्विदमेवात्रावश्यं ख्यापनीयमयं ग्रन्थो व्युत्पित्सुबालानामतीव व्युत्पत्तिविलासायोपकारकः स्यात् । अस्य प्रकरणविषयक्रमश्चाग्रेऽनुपदं यथावद्विशदीकृतोऽस्तीत्यत्रैवोपरम्यते। ग्रन्थशोधयिता।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 576