Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
साहित्यसारम् ।
[ पूर्वार्ध सुन्दरी स्वेशहृदयं वशीकृत्य स्वसगुणैः। लौकिकं वैदिकं चापि कूजतीष्टं ससाधनम् ॥ १४ ॥ तद्वत्काव्याद्यपि श्रीमन्महारामायणादिकम् । श्रोतुर्मनो वशीकृत्य हितं वक्ति सहेतुकम् ॥ १५ ॥ अयं सर्वत्र सुखदः श्रवणेऽनुष्ठितावपि । तहणाथै रसोत्पत्तेः फले त्विष्टार्थसिद्धितः ॥ १६ ॥ यत्तु स्मृत्यादिवचनं काव्यालापांश्च वर्जयेत् ।
इत्यादि तत्तु श्रीशादिभिन्नवर्णनदूषकम् ॥ १७॥ निरासार्थः । श्रवण इत्यादिसप्तम्यन्तत्रयेऽपि । अपिशब्दोऽध्याहार्यः । शेषं स्पष्टम् । अत्र पद्यद्वयेऽपि नृपोपदेशविका अनुमानमूह्यम् ॥ १३ ॥ ननु कथमस्योपदेशत्वसाम्येऽपि कालत्रयेऽपि सुखहेतुत्वमेवेत्यतस्ते क्सिदयति-सुन्दरीत्यादिपद्यद्वयेन। खेशहृदयं नतु कान्तहृदयम् । तथात्वे कान्तशब्दितरम्यघुमात्रलाभेन तस्याः परकीयात्वापत्तेः । तस्मानिजरमणान्तःकरणमित्यर्थः । स्वसद्गुणैः वसंबन्धिभिरेव नतु सख्यादिनिष्ठैः।तत्रापि सद्भिः लोकवेदवन्द्यैः पातिव्रत्यादिभिः । नतु केवलं लावण्यादिगुणैः यावद्दिव्यमुग्धाधमैरित्यर्थः । लौकिकं अर्थकामाख्यम् । वैदिकं धर्ममोक्षाख्यम् । साधनैर्नम्रत्वादिभिः सहितम् ॥ १४ ॥ तद्वदिति। एतदनुरोधेन पूर्व यद्वदिति ज्ञेयम्। महारामायणं श्रीमद्वाल्मिकीययोगवासिष्ठाख्योत्तरकाण्डार्थकद्वात्रिंशत्साहस्यात्मकोत्तररामायणसहितं । चतुर्विंशतिसाहस्यात्मकं पूर्वरामायणं प्रसिद्धमेव । आदिपदान्मानुषकाव्यसंग्रहः । स्वसदित्यादितृतीयचरणान्तमत्रानुकर्षणीयम् ॥ १५ ॥ ननु किमेतावता सुखैकहेतुत्वे समायातमिति निजाभिसं. ध्यनभिज्ञशङ्कां व्युदसितुं स्वरहस्यं स्पष्टयति-अयमिति । तत्र हेतुमाह-श्रवण इत्यादिशेषेण । तद्गुणाद्यैः रसोत्पत्तेः श्रवणे तथा अनुष्ठितावपि सुखदः तस्य काव्यस्य पक्षे निरुक्तलक्षणकलत्रस्य ये गुणाः काव्यपक्षे वक्ष्यमाणाः, कलत्रपक्षे पातिव्रत्याद्याः । आद्यशब्देन काव्ये वक्ष्यमाणदोषाभावः, कलत्रे च कुरूपत्वाद्यभावो ग्राह्यः । रसः शृङ्गारादिः । उपदेशस्य श्रवणादिवेलायामपि निरुक्तरसास्वादमोदमनमानसत्वजनकतयास्य सर्वत्र सुखदत्वमिति भावः । नन्वेवं चेत् 'विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम्' इति स्मृतेः फले दुःखदः स्यानेत्याह-फलेत्विति । तुशब्दः शङ्काशान्त्यर्थः ॥ १६ ॥ अ. हो यद्येवं काव्यादिमाहात्म्यं तर्हि स्मृत्यादौ तद्रचनादि किमिति निषिद्धमित्याशङ्कय तदाशयस्त्वन्य एवेत्याह-यत्त्विति । अतएव श्रीमद्भागवते 'न यद्वचश्चित्रपदं हरेर्यशः' इति, ‘स वाग्विस! जनताघविप्लवः' इति च भगवद्गुणवर्णन. विधानमिति भावः । आदिपदात्तद्भक्तानां संग्रहः । तेषां तस्यापि मान्यत्वात् । अतएव शाकुन्तलनाटके कालिदासेन दुष्यन्तस्य, नैषधीयचरिते श्रीहर्षेण नलस्य, किरातार्जुनीये भारविणार्जुनस्य, दमयन्तीकथाचम्पूप्रबन्धे दमयन्त्यादेत्रिविक्रमेण

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 576