SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्ध सुन्दरी स्वेशहृदयं वशीकृत्य स्वसगुणैः। लौकिकं वैदिकं चापि कूजतीष्टं ससाधनम् ॥ १४ ॥ तद्वत्काव्याद्यपि श्रीमन्महारामायणादिकम् । श्रोतुर्मनो वशीकृत्य हितं वक्ति सहेतुकम् ॥ १५ ॥ अयं सर्वत्र सुखदः श्रवणेऽनुष्ठितावपि । तहणाथै रसोत्पत्तेः फले त्विष्टार्थसिद्धितः ॥ १६ ॥ यत्तु स्मृत्यादिवचनं काव्यालापांश्च वर्जयेत् । इत्यादि तत्तु श्रीशादिभिन्नवर्णनदूषकम् ॥ १७॥ निरासार्थः । श्रवण इत्यादिसप्तम्यन्तत्रयेऽपि । अपिशब्दोऽध्याहार्यः । शेषं स्पष्टम् । अत्र पद्यद्वयेऽपि नृपोपदेशविका अनुमानमूह्यम् ॥ १३ ॥ ननु कथमस्योपदेशत्वसाम्येऽपि कालत्रयेऽपि सुखहेतुत्वमेवेत्यतस्ते क्सिदयति-सुन्दरीत्यादिपद्यद्वयेन। खेशहृदयं नतु कान्तहृदयम् । तथात्वे कान्तशब्दितरम्यघुमात्रलाभेन तस्याः परकीयात्वापत्तेः । तस्मानिजरमणान्तःकरणमित्यर्थः । स्वसद्गुणैः वसंबन्धिभिरेव नतु सख्यादिनिष्ठैः।तत्रापि सद्भिः लोकवेदवन्द्यैः पातिव्रत्यादिभिः । नतु केवलं लावण्यादिगुणैः यावद्दिव्यमुग्धाधमैरित्यर्थः । लौकिकं अर्थकामाख्यम् । वैदिकं धर्ममोक्षाख्यम् । साधनैर्नम्रत्वादिभिः सहितम् ॥ १४ ॥ तद्वदिति। एतदनुरोधेन पूर्व यद्वदिति ज्ञेयम्। महारामायणं श्रीमद्वाल्मिकीययोगवासिष्ठाख्योत्तरकाण्डार्थकद्वात्रिंशत्साहस्यात्मकोत्तररामायणसहितं । चतुर्विंशतिसाहस्यात्मकं पूर्वरामायणं प्रसिद्धमेव । आदिपदान्मानुषकाव्यसंग्रहः । स्वसदित्यादितृतीयचरणान्तमत्रानुकर्षणीयम् ॥ १५ ॥ ननु किमेतावता सुखैकहेतुत्वे समायातमिति निजाभिसं. ध्यनभिज्ञशङ्कां व्युदसितुं स्वरहस्यं स्पष्टयति-अयमिति । तत्र हेतुमाह-श्रवण इत्यादिशेषेण । तद्गुणाद्यैः रसोत्पत्तेः श्रवणे तथा अनुष्ठितावपि सुखदः तस्य काव्यस्य पक्षे निरुक्तलक्षणकलत्रस्य ये गुणाः काव्यपक्षे वक्ष्यमाणाः, कलत्रपक्षे पातिव्रत्याद्याः । आद्यशब्देन काव्ये वक्ष्यमाणदोषाभावः, कलत्रे च कुरूपत्वाद्यभावो ग्राह्यः । रसः शृङ्गारादिः । उपदेशस्य श्रवणादिवेलायामपि निरुक्तरसास्वादमोदमनमानसत्वजनकतयास्य सर्वत्र सुखदत्वमिति भावः । नन्वेवं चेत् 'विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम्' इति स्मृतेः फले दुःखदः स्यानेत्याह-फलेत्विति । तुशब्दः शङ्काशान्त्यर्थः ॥ १६ ॥ अ. हो यद्येवं काव्यादिमाहात्म्यं तर्हि स्मृत्यादौ तद्रचनादि किमिति निषिद्धमित्याशङ्कय तदाशयस्त्वन्य एवेत्याह-यत्त्विति । अतएव श्रीमद्भागवते 'न यद्वचश्चित्रपदं हरेर्यशः' इति, ‘स वाग्विस! जनताघविप्लवः' इति च भगवद्गुणवर्णन. विधानमिति भावः । आदिपदात्तद्भक्तानां संग्रहः । तेषां तस्यापि मान्यत्वात् । अतएव शाकुन्तलनाटके कालिदासेन दुष्यन्तस्य, नैषधीयचरिते श्रीहर्षेण नलस्य, किरातार्जुनीये भारविणार्जुनस्य, दमयन्तीकथाचम्पूप्रबन्धे दमयन्त्यादेत्रिविक्रमेण
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy