________________
धन्वन्तरिरत्नम् १ ]
सरसामोदव्याख्यासहितम् ।
जिज्ञासोः सुन्दरीरीत्या काव्यं समुपदेशकृत् । ऐहिकामुष्मिकादेर्यत्सोऽयमन्यार्थ उच्यते ॥ ९ ॥ वेदेतिहास काव्यादिशब्दभेदात्रिधा मतः । उपदेशो नृपसुहृत्सुन्दरीरीतितः क्रमात् ॥ १० ॥ नृपाज्ञावत्तु वेदाज्ञानुल्लङ्घयैवेति वैदिकः । नृपरीत्योपदेशोऽसौ फल एवातिसौख्यदः ॥ ११ ॥ सुहृदुक्तिकृती सौख्यं फले नोचेद्भयं नहि । सुहृद्रीत्योपदेशोऽयमितिहासादिकर्तृकः ॥ १२ ॥ astrकारिसुखायैव श्रवणेऽनुष्टित फले । कान्तारीत्योपदेशः स्यात्सोऽयं काव्यादिसंभवः ॥ १३ ॥ इव समुत्थितासीदिति प्रसिद्धमेव लोके । अत्राप्यादिना सूर्यशतककारो मयूरः, तथा मुद्गलाचार्योऽपि श्रीरामोपासकः कंचिद्रन्थं कुर्वन्माध्याहिकार्य गङ्गातीरमगात्तदा तद्रूपेण श्रीराम एवागत्य तत्र किंचिह्निलेखेति तन्मात्रा निरीक्षितम् । ततः पुनरागते तस्मिंस्तया अयि पुत्र, किमिदं तव विलक्षणं शास्त्रव्यसनं यद्गङ्गां प्रति गतोऽपि तत्र किंचित्स्मृतलेखनार्थं ततोऽप्यागत्यादौ तत्संल्लिख्य पश्चात्पुनस्तत्र गत्वा नित्यकर्म विधायाधुना समागतोऽसीत्युक्तः संस्तेनेदं श्रीरामचरित - मेवेत्यनुमाय स्वकुलस्वामिश्रीरामप्रतिमां स्वप्रत्यक्षतार्थमार्याशतकात्मककाव्येन संप्रार्थ्य सयः साक्षात्कृतिमापेत्यपि समुपाख्यायते वृद्धैः ॥ ८ ॥ एवं प्रतिज्ञातकाव्यादिजन्यस्वार्थस्य चातुर्विध्यमार्षमानुषोदाहरणपूर्वकं प्रपश्याधुनोद्देशानुसारेणावसरप्राप्तं तज्जन्यमन्यार्थ लक्षयति - जिज्ञासोरिति । सौन्दर्यमत्र या - वत्स्त्रीगुणविशिष्टस्वरमणीत्वमेव यत् ऐहिकामुष्मिकादेः समुपदेशकृद्भवतीति संबन्धः । ऐहिकोऽर्थादिपुमर्थः । मुष्मिको धर्मादिः । आदिशब्देन ऐहिकादेः साधनम् ॥९॥ अथोक्तरीतिमेव व्युत्पादयितुं रीतिभेदेनोपदेशस्यैव त्रैविध्यं बोधयति - वेदे - तिहासेति । आदिपदं मुख्यार्थम् । नृपः सार्वभौमः । यद्वा खापेक्षया शक्त एव यः कश्चित् प्रभुशब्दवाच्यः। सुहृत् निरपेक्षसततहितकर्ता ॥ १० ॥ सूत्रितं नृपादिरीतित्रयेण वेदाद्युपदेशत्रयं क्रमेण विवृणोति - नृपेत्यादिश्लोकत्रयेण । वैदिकः उपदेश इति पूरणीयम् । अत्रायं प्रयोगः - वेदोपदेशः नृपरीतिकः अनुलङ्घयत्वात्तदुपदेशवदिति । एवं तर्ह्यभ्यर्हितत्वात्तेनैव पुरुषार्थसिद्धौ कृतं काव्यादिनेत्यत आह- असाविति । तस्य तथात्वेऽपि श्रवणानुष्टान कालयोः सुखहेतुत्वाभावाद्विषयिणामधिकारिणां सुसमुद्वेजकत्वेन झटिति सन्मार्गप्रवर्तकत्वं इति काव्याद्युपयुक्तमेवेति तात्पर्यम् ॥ ११ ॥ सुहृदिति । फले सति सौख्यं भवत्येवेत्यध्याहृत्य योज्यं नोचेत् तदकरण इत्यर्थः । इतिहासादीति । आदिशब्देन पुराणादिग्रहः । इतिहासादयः कर्तारो यस्य सतथा ॥१२॥ योऽधिकारीति । आधिकारित्वमत्र विषयित्वेऽपि पुरुषार्थेच्छुत्वमेव । अन्यथा रसिकत्वेऽपि तदुक्तानुष्ठाने औदासीन्यापत्तेः । एवकारोऽत्र दुःखलेशस्यापि