SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्ध वाल्मीक्यादेरभूत्कीत्य धावकादेः श्रियेऽपि च । कामाप्त्यै जयदेवादेर्मुद्गलादेस्तु मुक्तये ॥ ८॥ पुण्यस्य कर्मणो दूराद्गन्धो वातीति श्रुतेर्गन्धशब्दितसत्कीर्तिरेव धर्मलक्षकत्वेन तल्लक्षणम् । संपत्तिर्धनादिरूपा प्रसिद्धैव । तृप्तिरभिलषितावाप्त्या तुष्टिः। मुक्तिरद्वैतात्मतयावस्थितिः । एताः कीर्त्यादयो वपूंषि स्वरूपलक्षणत्वेन स्वरूपाणि यस्य स धर्मादिः क्रमादनुक्रमेण चतुर्विधः खार्थः खकीयः पुरुषार्थो भवतीत्यर्थः ॥ ७ ॥ ननु किमेतावता प्रकृते काव्ये समायातमित्यत आह सोदाहरणम्-वाल्मीक्यादेरिति । काव्यादीत्यनुकृष्य योज्यम् । आदिशब्देन कालिदासादिः । वाल्मीकिग्रहणात्पूर्वपद्यटीकायां शङ्कितस्य साहित्यमूलककाव्यादिना तत्त्वविद्याविनोदानौ. चित्यस्य व्युदासः। विमलं धर्महेतु: कीर्तिजनकत्वात् वाल्मीक्यादिकाव्यवदित्यनुमानमत्रोनेयम् । धावकः एतन्नामा कश्चित्पण्डितः प्राक् परमदरिद्रश्चिन्तामणिनामकमहामन्त्रविशेषोपासनप्रसादेन विचित्रविद्याशाल्यपि निर्धनत्वेन बहु क्लिश्यमानः सन्नैषधीयचरिताख्यं शतसर्गात्मकं विचित्रं महाकाव्यं विरच्य गुणज्ञशिरोमणिं श्रीहर्षनामानं राजानं तत्प्रदर्य तेनातितुष्टात्ततः प्रतिवर्षे शतसहस्रात्मकरूप्यमुद्रोत्पत्तियोग्यां भूमिं प्रतिगृह्य तत्काव्ये प्रतिसर्गान्तिमश्लोके तत्पित्रो मभ्यां सहितं तत्कर्तृत्वेन तन्नाम ग्रथितवानिति वृद्धैरुपाख्यायते।एतदनुग्राहकं काव्यप्रकाशवाक्यमपि श्रीहर्षादेर्धावकादीनामिव धनमिति । आदिपदेन हेमाद्यादेराश्रितानां बोपदेवादीनां ग्रहः । एवं जयदेवोऽपि कस्यचिन्नृपस्याश्रितः सखाभूत् । तत्पत्नी पद्मावतीनाम्नी महासती कदाचित्तन्नृपपत्नीनिकटस्थिता सती तत्र कस्याश्चित्स्वपतिमृतिमनु तच्छवादिना सहात्मदेहं दहन्त्याः सत्याः प्रशंसां श्रुत्वा-किमेतत्सतीत्वम्, किंतु तदेव सतीवं यत्स्वपतिमृतिश्रवणोत्तरक्षण एव खप्राणवियोगः खत एव स्यादित्युक्तवती । ततस्तद्वाक्यं तया महिष्या मनसि निधाय तस्याः परीक्षार्थ कंचिनृपभृत्यं रहसि समुपदिश्य मृगयार्थं गच्छता राज्ञा सह महाहयं समारुह्य जयदेवेऽपि कदाचिद्गते सति किंचिन्मृगयाकौशलविशेषप्रदर्शनेन तं नृपं जयदेवं च प्रसाद्य ततः पारितोषिकदानात्मना जयदेवात्स्वोष्णीषं संपाद्य युक्त्या तदानीमेव खनिकटे सानयित्वा तदुपरि भृत्यान्तरद्वारा पशुरक्तबिन्दून्सद्यः संनिषेचयित्वा, जयदेवस्तु राज्ञा सह मृगयालीलावलोकानार्थ गतस्तत्राकस्मादागतेन व्याघ्रण भक्षित इति वत्प्रत्ययार्थ मया तदुष्णीषमिदमानीतमिति वार्ताकथनपूर्वकं तत्पद्मावती प्रत्यभिप्रेषितमासीत् । अथ सा पद्मावती परमसती तद्वृत्तान्तश्रवणपूर्वकं तद्वीक्ष्य तत्क्षण एव प्राणान्मुमोच । ततः सा राज्ञी भृत्यतः तद्वृत्तं श्रुत्वाऽथ स्वयमपि तत्र गत्वाऽतिचकिताऽभूत् । ततो मृगयां विधाय परावृत्ते राज्ञि जयदेवोऽपि गृहमागम्याथ नृपपत्न्या वापराधे निवेदिते तां सांत्वयित्वा तच्छवनिकट एव स्थित्वा भगवतः श्रीकृष्णस्य भगवत्या राधया सह विलासं गीतगोविन्दाख्यकाव्येनावर्णयत् । ततश्चतुर्विंशतिगीतसमाप्तिसमं सा पद्मावती पूर्ववदेव निद्रात १ रूपद्वयमपीदं प्रामादिकं 'समासे नञ्पूर्वे-'इति ल्यब्विषयत्वात्। णीङोऽनिटूत्वाच्च ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy