SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ धन्वन्तरिरत्नम् १] सरसामोदव्याख्यासहितम् । तन्यते तद्विकासेन स्मरवत्सुदृशां मुदे ॥५॥ अप्रौढानामपि क्षिप्रं साहित्ये प्रौढताप्तये । वक्ष्ये लक्ष्यादि संक्षेपात्र वेणुक्कणे यथा ॥ ६॥ काव्यादिस्वार्थमन्यार्थ चाथ स्वार्थश्चतुर्विधः। धर्मादिः कीर्तिसंपत्तितृप्तिमुक्तिवपुःक्रमात् ॥ ७॥ प्राचीनोऽनादिर्यः प्रकृष्टो बन्धः संसारस्तद्विलोपेनेत्यर्थः । एवं स्वशब्देनाद्वैतं ब्रह्म तख्यातिरपरोक्षत्वेन प्रसिद्धिस्तस्यै इत्यर्थः । प्रत्युतास्य तद्विवेचकत्वमेवेत्याहतदिति । सुदृशां विदुषाम् , स्मरपक्षे सुदृशां राधादिगोपीनां ये प्राचीनाः कृष्णाभिसरणात्प्रागेव संपादिताः कञ्चुकीग्रन्थ्यादिरूपाः सुदृढं बद्धत्वात्प्रकृष्टा बन्धास्तेषां अच्युतकृतस्मरविस्तारेण विकासशब्दितश्लथनद्वास यथानन्दस्तथेह पण्डितानामानन्दार्थमेवायं ग्रन्थः प्रकाश्यत इति भावः । अत्र शान्तशृङ्गारौ रसौ । अलंकारस्तूक्त एव ॥५॥ ननु बहूनामलंकारशास्त्रीयग्रन्थानां सत्वाद्विद्वन्मोदस्य तैरेव संपादितत्वात्ख्यात्यादिप्रयोजनस्य तु वयानुपदमेव प्रत्याख्यातत्वाद्विद्याविनोदस्य तु वेदान्तशास्त्रीयनिबन्धैरेव संपादयितुमुचितत्वाच्च निरर्थक एवायं वदायास इत्याशङ्कयाह-अप्रौढानामपीति । अच्युतः अहमिति च अनुषज्यते । यथा अच्युतः श्रीकृष्ण: अप्रौढानामपि मुग्धानामपि गोपीनां साहित्ये खेन सह मिथुनी. भावे विषये क्षिप्रं शीघ्रं प्रौढताप्तये कामोद्दीपनादिनाऽभिसरणादिचातुर्यसिद्ध्यर्थ लक्ष्यादिकुञ्जसंकेतादिकं वेणुक्कणे मुरलीरवे संक्षेपादवक्षदेवमहमप्यच्युतशर्मा साहित्ये साहित्यशास्त्रे अप्रौढानामपि अकोविदानामपि पुंसां क्षिप्रं द्रुतं प्रौढताप्तये तद्विषयकाभिज्ञखसिद्ध्यर्थे अत्र ग्रन्थे लक्ष्यादि लक्ष्यलक्षणादिकं संक्षेपात्वल्पप्रवन्धेन पक्ष्ये । कथयिष्याभीत्यर्थः । अयं भावः-यथा आम्रस्य तावन्मुख्यं प्रयोजनं फला. वाप्तिरेव, मध्यमं कुसुमामोदः, सामान्यं छाया; तथास्य मुख्यं प्रयोजनं तत्त्वविद्याश्रीविनोद एव, मध्यमं विबुधमोदः, सामान्यं बालबोध इति प्रयोजनत्रयवत्त्वान्नास्य निष्प्रयोजनताशङ्कावकाश इति,अभिनवग्रन्थेन काव्यरीत्यैव विद्याविलासानौचित्यपरिहारस्वग्रेऽनुपदमेव सोदाहरणं वक्ष्यत इत्यदोषः । अत्र पूर्णोपमाव्यङ्ग्यः शृङ्गार एव रसः॥६॥ननु भवत्वेवमस्य भवद्रन्थस्य यथाकथंचित्सप्रयोजनत्वं वा निष्प्रयोजनलं वा किं तेन, सति कुड्ये हि चित्रमिति न्यायेनादौ काव्यादेरेव किं प्रयोजनं । नहि ततः सुखावाप्तिर्दुःखनिवृत्तिर्वा दृश्यते, प्रत्युत 'काव्यालापांश्च वर्जयेत्' इति निषेध एव तद्रचनादेरित्याशङ्कय प्रतिज्ञातं साहित्यरहस्यरूपं ग्रन्थं काव्याद्युद्देशादिनोपपादयन् समाधत्ते-काव्यादीति । आदिशब्देन दशरूपकप्रसिद्ध नाटकादिकम् । किं काव्यादितः खार्थो नेत्युच्यते परार्थों वा। नाद्यः।धर्मादिरूपस्य चतुर्विधस्यापि तस्य ततः समुपलब्धत्वादिति।अत एव नान्योऽपिस्वन्यायेन तदुपदेशेन परस्यापि पुमर्थसंभवादित्याशयेन प्रतिजानीते-स्वार्थमित्यादिना।तच्चातुर्विध्यमुद्दिशति-धर्मादिरिति। तल्लक्षणान्याह-कीर्तीति।यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy