________________
साहित्यसारम् ।
[ पूर्वार्ध गुरून्विद्यागुरूंस्तद्वत्सगुरून्संप्रणौम्यहम् । तत्तत्पादारविन्देषु स्वान्तं नीत्वा मिलिन्दताम् ॥२॥ साहित्यसारं शिवयोः संचिन्त्य सुमनोनुगः । साहित्यसारं संविच्छ्रीविलासार्थ समुद्धरे ॥३॥ दुनोति नानया पूर्वसुमनोहृदयं गिरा। किंत्वच्युतश्चिनोत्येव मधुमक्षिकया यथा ॥४॥
प्राक्प्रबन्धविलोपेन स्वख्यात्यै नायमात्मवत् । रतम् ॥ १॥ अथ 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' इति श्रुतेर्गुरुभक्तेरप्यर्थावबोधहेतुत्वात्तान्प्रणमतिगुरूनित्यादिना । गुरुन 'स्थानिषेकादिकृद्गुरुः' इत्यमरोक्तेः श्रीमत्पित्रादिरूपान् विद्यागुरून्वेदशास्त्रादिविद्याप्रदा यान् सद्गुरूनद्वैतात्मतत्त्वोपदेष्ट्रन् । नमने सम्यक्त्वं भक्तिश्रद्धातिशयत्वम् । प्रकृष्टवं कायिकलादिनाऽष्टाङ्गविध्युक्तत्वे सति निरन्तरत्वम् । तदेव स्पष्टयति-तत्तदित्युत्तरार्धेन । मिलिन्दो भ्रमरः । अत्र प्राक्तनावेव रसौ । रूपकमलंकारः ॥ २ ॥ अथात्यन्तिकनिविघ्नतायै विघ्नराजं विचिन्त्य ग्रन्थनाम कथयन्सप्रयोजनं स्खौद्धत्यपरिहारपूर्वकं तत्करणं प्रतिजानीते-साहित्यसारमिति । शिवयोः पार्वतीपरमेश्वरयोः साहित्यसारं साहित्यं मिथुनीभावस्तस्य सारो मुख्यांशस्तं तत्पुत्रं गजाननमित्यर्थः । सुमनोनुगः सकलशान्तविद्वदनुसारी अहमित्यनुकर्षणीयम् । साहित्य सारं साहित्यशब्दवाच्यरसालंकारादिशास्त्ररहस्यमित्यर्थः । नचैवमस्य बहिर्मुखलहे. तुलं शङ्कयम्।प्रायःशान्तरसैकप्रधानवादस्येति प्रयोजनोक्तिव्याजेन समभिव्यञ्जयति -संविदिति। संविब्रह्मविद्या सैव श्रीलक्ष्मीस्तया सह विहारायेत्यर्थः । यथा सुमनःशब्दवाच्यदेवानुगेनाच्युतेन श्रीविलासाथै साहित्यस्य देवासुरसंमेलनस्य सारं कौस्तु. भादिकमुद्धतमेवं मयापीदमुद्भियत इति भावः ।अत्र संविदिति रूपकम्।भक्तिशान्तशृङ्गारा रसाः ॥३॥ प्रतिज्ञातं सुमनोनुगत्वमेव विशदयन्नस्य साहित्यशास्त्रीयप्रकरणत्वेऽपि निरुक्तप्रयोजनप्रतिज्ञयाभिनवखात्किमनेन प्राचां मतं खण्डयसीत्याशङ्कामपि शमयनू खनामापि निबध्नाति-दुनोतीति। अच्युतः अनया गिरा पूर्वसुमनोहृदयं नैव दुनोति किंतु यथा मक्षिकया द्वारा मधु चिनोति तथा चिनोत्येवेत्यन्वयः। अच्युतः अच्युतशर्मा ग्रन्थकृत् , मधुपक्षे परमात्मा तस्यैव मक्षिकाप्रेरकवेन तत्संपादकत्वात् पूर्वे च ते सुमनसस्तेषां हृदयम्।प्राचीनविद्वद्न्थतात्पर्यमित्यर्थः । नैव दुनोति। नैव खण्डयतीत्यर्थः । पक्षे अपूर्वेति च्छेदः । विचित्रनानाविधपुष्पगर्भमित्यर्थः । अत्र सुमनःपदेन तत्खण्डनानौचित्यं तथा मक्षिकोपमया स्वगिरः क्षुद्रवेऽपि परैकहितार्थ सारग्राहित्वं ध्वनितम् । प्राचामेवाशयकदम्बमेकीकृत्य विचित्ररसवत्त्वेनोक्तप्रयोजनसाधकं प्रकरणं क्रियत इति तात्पर्यम् । अच्युतेत्यादिगतश्लेषसहितः पूर्णोपमालंकारः ॥ ४ ॥ ननु मास्तु तत्खण्डनं तथापि विचित्ररचनयानया किं तदन्थविलोपनपूर्वकं स्वकीर्यथै यत्नोऽयं नेत्याह-प्रागिति।अयं ग्रन्थः।आत्मपक्षे