________________
श्रीः। श्रीमदच्युतरायप्रणीतम् साहित्यसारम् ।
000000000
सरसामोदाख्यव्याख्यासहितम् ।
पूर्वार्धम्।
धन्वन्तरिरत्नम् १ गौरीगौरागरागोरुरञ्जितानन्तविग्रहम् । वन्दे कंचिच्चिदानन्दं नन्दितानङ्गनिग्रहम् ॥१॥
अथ व्याख्या। साहित्यसारमाप्य स्वं स्वोक्तसाहित्यसारगम् ।
व्यनज्मि सरसामोदं सरसामोदसिद्धये ॥ १॥ मङ्गलादीनीत्यादिमहाभाष्यस्मृत्यनुमितश्रुतिप्रमाणकं शिष्टसांप्रदायिकं चिकीर्षितग्रन्थनिर्विघ्नतादिफलकं स्वेष्टदेवताप्रणत्यात्मकं मङ्गलं स्वयमनुष्ठायान्तेवास्यनुशासनार्थ ग्रन्थादावपि संग्रथयति-गौरीत्यादिना। गौर्याः यः गौरः काश्मीराद्यात्मकोऽङ्गरागः शरीरालेप्यसुगन्धिद्रव्यविशेषः तेन उरु उत्कटं रञ्जितःसरागीकृतः अनन्तः निर्गुणत्वेन वस्तुतः अपरिच्छिन्नोऽपि भक्तानुग्रहार्थे मायैकमयः कर्पूरगौरादिरूपः, यद्वा शेषोऽनन्तः' इत्यमरादनन्तः शेषस्तद्वान् ।तद्भूषितकण्ठ इत्यर्थः शिवप्रैवेयकं भुजंगराज इति पुराणादौ प्रसिद्धमेव । एतेन तत्र सर्वविद्यादातृत्वं ध्वनितम् । एतादृशः विग्रहः शरीरं यस्य स तथा तम् । अतएव नन्दिताः अद्वैतानन्दबोधेन मोदिताः अनङ्गस्य कामस्य निग्रहो येषां तादृशाः शुकादयो येन स तथा । हर्षितदान्तभक्तमित्यर्थः । एतादृशं कंचिनिर्गुणत्वेन ‘यतो वाचो निवर्तन्ते' इत्यादिश्रुतेर्वागाद्यगोचरं सगुणत्वेनापि तद्गुणानामानन्त्यात्तथाविधं चिदानन्दवोधरूपं 'सुखं शिवमद्वैतम्'इतिश्रुतेरद्वैतात्मानन्दरूपं परं शिवं अहं ग्रन्थप्रारीप्सुर्वन्दे। यथाविधि आत्मत्वेन प्रणौमीत्यर्थः । यतो गौरीत्यादिविशेषणविशिष्टोऽतोऽस्मदिष्टमपि स तनुयादेवेति भावः । अत्र शान्तो भक्तिश्च रसः । परिकरोऽलंकारः। 'शरीरं वर्म विग्रहः' इत्यमरः । अत्र प्रतिपद्येऽपि भूरि लेखनीयं यद्यप्यस्त्यथापि विस्तरभियोप