SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ धन्वन्तरिरत्नम् १] सरसाभोदव्याख्यासहितम् । तत्र निर्दोषशब्दार्थगुणवत्त्वे सति स्फुटम् । गद्यादिवन्धरूपत्वं काव्यसामान्यलक्षणम् ॥ १८॥ च वर्णनं कृतम् । यत्तु भामिनीविलासे शृङ्गारोल्लासे-'गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् । दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत्' इत्यादिना जगन्नाथपण्डितैः स्वप्रेयसीवर्णनं कृतं तत्तेषां श्रीगङ्गाप्रसादादेव शोभतेतरास्। नचैवं चतुर्विधपुमर्थात्मकस्वार्थादिसिद्धिलक्षणं काव्यादिप्रयोजनं 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे' इति काव्यप्रकाशकारिकया सह विरुद्धमिति वाच्यम् । एतस्य तदाशयैकविवृतिरूपत्वात् । तथाहि तत्र व्यवहार विच्छब्देन धर्मज्ञानमेव विवक्षितम् । नोचेत्तद्विवरणे राजादिगतोचिताचारपरिज्ञानमिति वचने उचितपदमाचारपदं च बाधितं स्यात्।तथा शिवेतरक्षतिसद्यः परनिर्वृतिपदाभ्यां मुक्तिरेव । तस्याएव निरतिशयसुखं च दुःखजातव्युपरमणं च वदन्ति मोक्षतत्त्वमिति श्रीमत्संक्षेपशारीरकाचार्य चरणवचनेन तथारूपत्वात् । एतेन कामाख्यपुरुषार्थस्यापि शिवेतरक्षत्यादावेव कैमुतिकन्यायेनान्तर्भूतत्वं विज्ञेयम् ।अन्यत्सर्वं स्फुटमेव । तस्मानिरुक्तमेव काव्यादिप्रयोजनमिति न कोऽपि दोष इति दिकू ॥ १७ ॥ एवं साहित्याधारीभूतकाव्यादेः साधारण्येन वेदादिवञ्चतुर्विधपुरुषार्थहेतुत्वे सोदाहरणे तथास्य सर्वदा सु. खदत्वेन विषयिणामपि मनो वशीकृत्य वेदार्थस्यैवाविष्करणद्वारा झटिति सन्मार्गप्र. वर्तकत्वे च सप्रपञ्चं सिद्धे सति किं तत्स्वरूपलक्षणमिति जिज्ञासायां सत्यां तदाह -तत्रेति । तत्र इदं काव्यसामान्यलक्षणं स्फुटमित्यन्वयः। तत्र निरुक्तरीत्या तस्य सप्रयोजनत्वेन प्रेक्षावदादरणीयतरत्वे सिद्धे सतीत्यर्थः । इदं निरुच्यमानम् । काव्यसामान्यलक्षणं कौति सुशब्दरचनां करोतीति कविस्तस्य कर्म काव्यं तस्य सामान्येन साधारण्येन लक्षणं अव्याप्त्यादिदूषणत्रयहीनो धर्मविशेषः स्फुटं स्पष्टं प्र. तिज्ञातमित्यर्थः । किं तदित्यत आह-निर्दोषेत्यादिना शेषेण । शब्दो रामादिःअर्थः सीताकान्तादिः शब्दश्चार्थश्च शब्दार्थों निर्गताः सुतरामविद्यमानाः दोषाः वक्ष्यमाणलक्षणाः श्रुतिकटुत्वादिरूपाः शब्दादिदोषाः याभ्यां तौ तथा तयोर्ये गुणा अपि सौकुमार्यादयो वक्ष्यमाणा एव शब्दार्थधर्मास्ते विद्यन्ते यस्मिंस्तत् ।तद्वत् तस्य भावस्तत्त्वं तस्मिन् सति गद्यादिवन्धरूपत्वम् गद्यं अनियताक्षरं दण्डकापरनामकं गाथाख्यं छन्दः तदादि यस्य श्लोकादिरूपपद्यस्य तद्रूपो यो बन्धः प्रबन्धस्तद्रूपं स्वरूपं यस्य तत्त्वम् । अत्र सत्यन्तपदकृत्यं तु स्वयमेवाग्रे वक्ष्यति । गद्यग्रहणेन कादम्बर्याः संग्रहः । तेन गद्यैकरूपं कादम्बर्यादि, पद्यैकरूपं रघुवंशादि । उभयरूपं दमयन्तीकथाचम्बादि च विवक्षितं भवतीति भावः । अत्र बन्धपदेन वेदादेर्युदासः । तस्याविर्भावादिमत्त्वेऽप्यर्थरचनपूर्वकवाभावेनानादित्वात्श्रीमहारामायणस्य तु आर्षवेऽपि न तत्राव्याप्तिः।इतिहासपुराणः पञ्चमो वेदानां वेदः इति श्रुतौ तदनुक्तेरिति १८
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy