SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्धे दोषे सति गुणैः किंवा किंवालंकरणैरपि। अतो निर्दोषसाहुण्यमेवात्राद्रियतां बुधैः॥ १९ ॥ धर्मा रसा लक्षणानि रीत्यलंकृतिवृत्तयः । रसिकालादका ह्येते काव्ये सन्ति च षड्गुणाः ॥२०॥ तत्र निर्दोषपदकृत्यमाह श्लेषेण-दोषे सतीति । दोषः काव्यपक्षे वक्ष्यमाणः श्रुतिकटुत्वादिलक्षणः, अन्यत्र अविवेकित्वादिः । गुणा अपि काव्यपक्षे सौकुमार्यादयो वक्ष्यमाणा एव, अन्यत्र सुरूपत्ववक्तृत्वादयः । तद्वदलंकरणान्यपि काव्य. पक्षे वक्ष्यमाणानि अनुप्रासपूर्णोपमादीन्येव, अन्यत्र हारादिभूषणानि। अत्र काव्ये स्त्रीपुसोरन्यतरस्य शरीरे च बुधैः सारासारविचारचतुरैः निर्दोषसाद्गुण्यमेव निर्गताः कालत्रयेऽप्यविद्यमानाः शेषाः युस्मात्तत्तथा सन्तः अलंकारसंग्राहकाःनिजरूपेष्वेवालंकारान्तर्भावपटव इत्यर्थः । ते च ते गुणाश्च तथा तेषां भावः साद्गुण्यं निर्दोष च तत्साद्गुण्यं च निर्दोषसाद्गुण्यम् । अवधारणं त्वलंकारपार्थक्यव्यावृत्त्यर्थम् । उपलक्षणमिदं वक्ष्यमाणलक्षणानां रसादीनामपि । तेन निर्दोषशब्दादिगुणवत्त्वशालिवाक्यत्वं फलितम् । आद्रियतां । प्रेम्णा स्वीक्रियतामित्यर्थः । अत्र दोषे इत्ये. कवचनेन गुणैरिति बहुवचनेन च ‘एको हि दोषो गुणसन्निपाते निमजतीन्दोः किरणेष्विवाङ्कः' इति न्यायः प्रत्युक्तः। तत्र यदि किरणशब्देन कला विवक्षितास्तर्हि ताखखिलासु सतीष्वङ्कस्फुटत्वस्य प्रत्यक्षसिद्धत्वात् 'कलावतः सैव कला यया. धः क्रियते भवः । किं ताभिर्बहुपुष्टाभिर्याभिरङ्कः प्रदृश्यते' इति कविसमयेऽपि तथा वर्णितत्वाच्च । यदिवा रश्मय एव तत्रापि तेषु तन्निमजनस्य सुतरामसंभवात् प्रत्युत ज्योत्स्नारूपाणां तेषां परमपुष्टत्वे बिम्बवर्तिनस्तस्य स्पष्टत्वेनैवभानानुभवाच्च । तस्मान्महाकविप्रयोगादिन्दुकिरणेषु अङ्कः कलङ्कः निमज्जति गुणानां बाहुल्यात्स्वस्यैकत्वात्तद्विघातक एव न भवति नतु खयमपि न प्रदृश्यत इति यथाम्भसि गजो निमज्जतीत्युच्यते तद्वदिति व्याख्येयम् । अतएव 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्' इति पूर्वार्धे हिमस्य हिमालयगतानन्तरत्नोत्पत्तिस्थानत्वलक्षणसौभाग्यविलोपकत्वराहित्यमेवोकं नतु तस्य अभासमानत्वमपि । तस्मा. द्भासमानो दोषस्तावद्धिमवत्कलङ्कवच्च जाड्यादिवदनौचित्यादिवच्च वैरस्यं जनयिष्ययेव, तथापि तस्याल्पत्वाद्गुणानां बाहुल्याच 'विपदः संतु नस्तास्तास्तत्रतत्र जगद्गुरो। भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम्' इति श्रीकृष्णं प्रति कुन्त्युक्तन्यायेन न तावस्वाधिकरणत्याज्यतां जनयतीति । नन्वेवं चेत्कथं त्वया दोषे सतीत्यादि प्रतिज्ञातमितिचेन । तथात्वस्यैव सार्वत्रिकत्वात् उक्तोदाहरणव्यवस्थायास्तु काचित्कत्वादिति रहस्यम् । अतएव भामिनीविलासे जगन्नाथपण्डितोक्तिः अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति। निखिलरसायनराजो गन्धेनोग्रेण लशुन इव' इति । अस्मिन्नुदाहरणे तु एकोऽपि दोषो बहुगुणविघातकोऽपीति विशेषः ॥ १९ ॥ एवं नि. र्दोषपदप्रयोजनमभिधाय गुणपदकृत्यं कथयस्तद्विभागं तत्साधारणलक्षणं तत्सं. ख्यां च तुल्ययोगितयाह-धर्मा इति। धर्माः काव्यप्रकाशादौ गुणशब्दव्यवहार्या
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy