SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ धन्वन्तरिरत्नम् १] सरसामोदव्याख्यासहितम् । वक्ष्यमाणलक्षणाः माधुर्यादयः, रसाः शृङ्गारादयः, लक्षणानि अक्षरसंहतिशोभादीनि वक्ष्यमाणानि, रीतयोऽपि गौडीपाञ्चाल्यादयो वक्ष्यमाणा एवाएवमलंकृतयोऽप्यनुप्रासादयोऽलंकाराः । तथा वृत्तयो मधुराद्याः शक्त्याद्याश्च तादृश्य एव । हि यस्मात् एते धर्मादयो रसिकालादकाः षडपि सन्ति । अत एते काव्ये सति च गुणा भवन्तीत्यन्वयः । यस्माद्धेतोः एते पूर्वार्धोक्ताः धर्मादयः गुणापरनामकधर्मप्रभृ. तयः रसिकालादकाः रसज्ञास्तानाहादयन्ति सन्तोषयन्तीति तथा । पण्डितानन्दहेतव इत्यर्थः । षडपि सन्ति षट्संख्याकाः सर्वेऽपि साधम्र्येण वर्तन्ते । अतोहेतोः एते प्रकृताः षट्पदार्थाः काव्ये प्रागुक्तलक्षणे प्रबन्धे सति 'सदेव सोम्येदमग्र आसीत्', 'तदैक्षत', 'तत्तेजोऽसृजत' इत्यादिश्रुतेः सगुणे ब्रह्मणि च । परमेश्वरशब्दितमायोपहितब्रह्मण्यपीत्यर्थः । गुणाः गुणशब्दव्यवहार्या भवन्तीत्यर्थः । रसिकालादकत्वरूपं गुणत्वं षट्खपीति सर्वेऽप्येते गुणा एवेति भावः । ब्रह्मपक्षे तु 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्य च मोक्षस्य षण्णां भग इतीरणा' इति वचनादिमे तत्रापि योज्याः । तद्यथा धर्मा इत्यादिषु बहुवचनं समग्रस्येति विशेषणध्वनितपूर्णत्वसूचनार्थम् । धर्मपदार्थस्तु प्रसिद्ध एव । रसशब्देन 'रसो वै सः' इति श्रुतेरद्वैतानन्दरूपो मोक्षः । लक्षणपदेन सगुणब्रह्मणो लक्षणमणिमाद्यैश्वर्यमेव । रीति. शब्देन लोके व्यवहृतिः प्रसिद्धा । भगवति तु सा यशस एव मूलीभूतेति यश एव । अलंकृतिपदेन तत्साध्या शोभापरनाम्नी श्रीरेव । वृत्तिशब्देन वर्तनं वृत्तिरिति व्युत्पत्त्या 'अनश्ननन्यो अभिचाकशीति' इति श्रुतेः परमेश्वरस्य वैराग्यात्मकमेव वर्तनमिति तदेव ग्राह्यम् । 'वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव' इत्यादिपाठेऽपि यथायथमूह्यम् । ननु काव्यप्रकाशकारस्तु गुणान्प्रकृत्य 'माधुयोजःप्रसादाख्यास्त्रयस्तेन पुनर्दश' इति कारिकया धर्मशब्देन त्वदभिमतानां माधुर्या. दीनां त्रयाणामेव गुणत्वमुक्त्वा यत्तावच्चन्द्रालोके स्वाभिमतगुणाष्टककथनोत्तरम् 'श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिः समाधयः । अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा' इति वामनोक्तगुण. दशकं संगृहीतं तत्तिरस्करणमपि प्रतिज्ञातवान् । तथा 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः' इति, उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः' इति च कारिकाभ्यां तथा । अतएव माधुर्यादयो रसधर्माः समुचितैर्वणैर्व्यज्यन्ते नतु वर्णमात्राश्रया इति । येच वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं संभविनमुपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणामप्युपकारका हारादय इवालंकारा इति च तद्व्याख्यानाभ्यां क्रमेण गुणालंकारयोर्लक्षणं विभागं चोक्तवान् । एवं चन्द्रालो. केऽपि 'अमी दश गुणा' इत्यस्मादुत्तरश्लोके 'तिलकाद्यमिव स्त्रीणां विदग्धहृदयंगमम् । व्यतिरिक्तमलंकारं प्रकृते भूषणं गिराम्' इत्यत्र अलंकाराणां गुणभिनत्वं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy