________________
१०
साहित्यसारम् ।
[ पूर्वार्धे तत्स्वरूपादिकं चोक्तम्।त्वया त्वद्य माधुर्यादीनां धर्माणां रसादिवृत्तिपर्यन्तानामन्ये. षामपि साधारण्येन रसिकाह्लादकत्वेन गुणत्वमेवोच्यते तत्कथं न विरुद्धमुदाहृत. प्राचीनाचार्यवचनैः सहेति चेत्सत्यं । तथापि मया तावत्त्वदुदाहृतग्रन्थतात्पर्यमेव मनसि निधायैवमुक्त भङ्गयन्तरेण, नतु किंचित्कपोलकल्पितमिति । तथाहि काव्यप्र. काशे तावत्काव्यलक्षणावसरे-'तददोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि' इति प्रायः सालंकारत्वे सति निर्दोषसगुणशब्दार्थोभयत्वं काव्यत्वमिति स्पष्टं काव्यलक्षणं सामान्यनोक्तम् । चन्द्रालोके तु तत्र 'निर्दोषा लक्षणवती सरीतिर्गुणभूषणा । सालंकाररसानेकवृत्तिर्वाकाव्यनामभाक्' इति तल्लक्षणमुक्तम् तत्रोभयोवि. रोधस्तावत्प्रत्यक्ष एव । तत्परिहरणार्थमेव मयात्र भङ्गयन्तरमाश्रितम् । तद्यथाकाव्यप्रकाशे तावत्तददोषाविति लक्षणमुक्त्वा दोषगुणालंकारा वक्ष्यन्ते । कापीत्यनेनैतदाह-यत्सर्वत्र सालंकारौ क्वचितु स्फुटालंकार विरहेऽपि न काव्यत्वहानिः । यथा-'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते' । अत्र स्फुटो न कश्चित्तदलंकारः । रसस्य हि प्रधानत्वान्नालंकारतेति सोदाहरणं व्याख्यातम् । तत्र रसस्येत्युक्तेस्तस्य काव्यलक्षणान्तर्गतत्वेन रसोऽपि विवक्षित इति गम्यते । तथा स्फुटो नेत्यायुक्त्या गूढोऽलंकारो ध्वन्यात्मकस्तावदत्राप्यस्तीत्येतदाशयः स्पष्ट एव । लक्षणवाक्ये तु रससंग्राहकपदाभावात्तद्रहस्य तूक्तरीत्या आवश्यकत्वात् माधुर्यादयो रसधर्माः समु. चितैर्वणैर्व्यज्यन्त इत्यनुपदोदाहृततदुक्त्या काव्यलक्षणे गुणपदेन माधुर्यादीनां रसधर्माणां तद्व्यञ्जकसमुचितवर्णसंग्रहेणैव सिद्धवाद्धर्मग्रहस्य धर्मिग्रहान्यथानुपपत्त्या तद्धर्मिणां शृङ्गारादिरसानामपि गुणपदेनैवार्थिकग्रहणस्यावश्यवाच्यत्वच्चा सिद्धमेव तल्लक्षणे सरसत्वम् । नच नीरसस्याप्युदाहृतानलंकारकाव्यवनिर्दोषसगुणशब्दार्थयुगुलस्यैवास्तु काव्यत्वं किमेतावत्कुसृष्टयेति वाच्यम् । गुणग्रहणे निरुक्तरीत्या बलात्सरसतापत्तेः । उपलक्षणमिदमक्षरसंहत्याद्यात्मकानां लक्षणरीतिवृत्तिपदार्थानामपि वक्ष्यमाणलक्षणास्तेऽप्यत्रोक्तदिशा यथायथमूह्याः । अतएवेदमेव काव्यप्रकशस्वारस्यं विवृण्वद्भिश्चन्द्रालोककारैः श्रीजयदेवकविवरैर्बालानां स्फुटसंबोधार्थ 'निर्दोषा लक्षणवती' इत्यादिना काव्यलक्षणं कृतं, मया तूभयोः सारतस्तात्पर्यमादायाविरोधार्थ प्रवृत्तेन काव्यप्रकाशोक्तलक्षणमेव प्रथममुक्त्वा गुणशब्देनोक्तरीत्या तदभिप्रेतानां चन्द्रालोककृतलक्षणे स्पष्टं विवृतानां रसादिषण्णां पदार्थानां रसिकालादकत्वलक्षणगुणत्वसामान्येन गुणभेदोक्तिद्वारा कथनं कृतमिति कोनाम ममानयोश्च विरोधगन्धोऽपि । नचास्तु नाम यथाकथंचिद्रसादीनामुक्तयुक्त्या गुणपदेन संग्रहः परत्वलंकारस्य तु तेन यथा संग्रहः कृतस्तथा तु त्वया नैव कृतस्तस्मात्पुनर्विरोधतादवस्थ्यमेवेति वाच्यम् । तद्रहस्यस्य त्वयैवाज्ञातत्वात् । तथाहि ‘यः कौमार' इत्युदाहरणं तुस्फुटालंकृतिहीनकाव्यस्येत्यविवा