SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ११ धन्वन्तरिरत्नम् १] सरसामोदव्याख्यासहितम् । अलंकारा गुणेष्वेव ग्रथ्यन्ते प्रायशो भुवि । गुणेभ्योऽतः पृथक्त्वेन प्रगल्भानां न तद्रहः ॥ २१॥ दमेव । तत्र गूढालंकारस्य ग्राहकं लक्षणे गुणपदं विना किमस्तीति त्वयैव वक्तव्यम् । तस्मादेकदेशविकृतन्यायेन सर्वोऽप्यसौ मया गुणत्वेनोक्त इति निर्मत्सरैधीरेध्येयमिति दिक् । एतेन यत्त प्राञ्चः-अदोषौ सगुणौ सालंकरौ च शब्दार्थों काव्यमित्याहुस्तत्र विचार्यत इत्यादिग्रन्थेन काव्यपदस्य लोकव्यवहारतः शब्दविशेष एव शक्तलाच्छब्दार्थयुगु लस्य नैव काव्यत्वं संभवतीत्याशयवद्भिर्जगन्नाथपण्डितैस्तावद्रसगङ्गाधरे काव्यप्रकाशोक्तलक्षणं दूषितमिव भाति तदपि परास्तम् । तथाहि 'तददोषौ शब्दार्थो सगुणावनलंकृती पुनः क्वापि' इति काव्यप्रकाशे काव्यलक्षणमुक्त तद्यदि यथाश्रुतं गृयेत तदा राम इति पदे तदर्थमात्रेऽपि काव्यतापत्तिः स्यात् । उक्तलक्षणस्य तत्रापि सत्त्वात् । इष्टापत्तौ तेन 'यः कौमारहर' इत्यादिश्लोकोदाहरणं किमिति दत्तं स्यात् । तस्मात्तदन्यथानुपपत्त्या निर्दोषाभ्यां गुणवझ्या शब्दार्थाभ्यां युक्तः प्रबन्धविशेष एव काव्यत्वेन तस्य विवक्षित इति वक्तव्यम् । मदुक्तलक्षणे चात्र तावन्मानमेवास्ति । तथात्वे च क्व नामोक्तदूषणावसरः । तस्मादिदं दूषणं तु तैरत्र नैव दत्तं किंवन्यस्मिन्नेवोक्तलक्षणवति कस्मिंश्चित्प्राचीननिबन्ध इति ज्ञेयम् । नच शब्दसमुदायात्मके प्रबन्धे कथं शब्दाधारतेति शङ्कयम् । वने वृक्षवत्तत्संभवात् । यत्तु निरुक्तग्रन्थे रमणीयार्थप्रतिपादकः शब्दः काव्यमिति तैः काव्यलक्षणं कृतं तत्तावत् 'अयमात्मा ब्रह्म'इत्यादिवेदान्तमहावाक्यादावतिव्याप्तमिति तत्परिहरणमेवादी विचारणीयं सहृदयधुरीणैः । किंच मदुक्तलक्षणे तु गणपदेन धर्मा इत्यायुक्तषाडण्यसंग्रहान्न रसगङ्गाधरोक्त निर्गुणे निरलंकारे 'उदितं मण्डलं विधोः', 'गतोऽस्तमर्क' इत्यादौ काव्ये अव्याप्यापत्तिः । निरुक्तगुणान्यतमगुणवत्त्वस्य तत्रापि सत्वात् , शब्दार्थदोषाभावाच्च । तस्माद्युक्तमेव निर्दोषशब्दार्थेत्यादिलक्षणमित्यलं पल्लवितेन ॥ २० ॥ ननु गुणेष्वलंकाराणामन्तर्भावः क्वचिदपि नैव दृष्टस्त्वया तु लाघवाथ रसिकाहादकत्वसाधर्येण स कृतोऽपि नैव सहृदयादरणीयः स्यादित्याशङ्कायां श्लेषेण लोकनिदर्शनमपि तत्र द्योतयन्समाधत्ते–अलंकारा इति । अलंकाराः अनुप्रासोपमादयः, पक्षे मङ्गलसूत्रादयः गुणेष्वेव माधुर्यादिष्वेव। पक्षे सूत्रेष्वेव प्रायशः बाहुल्येन । एतेन क्वचिन्माधुर्यादिव्यञ्जकवर्णविपर्ययेऽप्यलंकारदर्शनात् , तथा सूत्रं विनापि कङ्कणाद्यलंकाराणां च दर्शनानैवेयंव्या प्तिरिति प्रत्यस्तम्। भुवि लोके ग्रथ्यन्ते गुम्फनविषयीक्रियन्त इत्यर्थः । अतः प्रायेणालंकाराणां गुणैकगुम्फनव्यवहारात् गुणेभ्यः पूर्वोक्तेभ्यः पृथक्त्वेन भिन्नत्वेन प्रगभानां प्रौढविदुषां पक्षे पतिमात्रविषयकेलिकलापकोविदां प्रगल्भेति रसमजर्युक्तलक्षणानां रमणीनां तद्हः तेषामलंकाराणां ग्रहः संग्रहः नैवास्तीत्यर्थः । यथा लोके मङ्गलसूत्राद्यलंकाराणां गुणशब्दितसूत्रेष्वेव ग्रथनादुक्तलक्षणतरुणीनां निरुक्तगुणेभ्यः पार्थक्येन तत्संग्रहो नैव संमतः पतिमात्रेत्युक्तलक्षणत्वेन मङ्गलसूत्रेत
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy