SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १२ साहित्यसारम् । [.पूर्वार्धे अलंकारेष्वपि गुणा यद्यप्यन्तर्भवन्ति हि।। तथाप्याधारतायोगान्मुख्यास्तेऽतः सुधीप्रियाः॥२२॥ अलंकारविहीनोऽपि सुदृक्सौभाग्यकृद्गुणः । गुणहीनमलंकारसहस्रमपि किं तथा ॥ २३॥ स्फीतदृष्टिष्वलंकारा गुणेभ्यः पृथगप्यलम् । - दृश्यन्ते तनु बाहुल्यात्तेषां तेषां च सौम्यतः॥२४॥ राङ्गुलीयकादावनादरात्तद्वत्प्रकृतेऽपीति भावः ॥ २१॥ एवंचेन्मुक्ताहारादौ गुणस्य गूढत्वरूपान्तर्भावाद्विपरीतमेवास्त्वित्यत आह-अलंकारेष्वपीति । सुधीत्वमुभयअपि, श्लेषस्तु प्राग्वत श्लोकषट्केपि विज्ञेयः । शेषं तु स्पष्टमेव ॥ २२ ॥ तदेवान्वयव्यतिरेकाभ्यामुपपादयति- अलंकारेति । गुणोऽत्र निरतिशयं पातिव्रत्यमेव । तस्यैव सावित्र्यादौ तथात्वदर्शनात् । अलंकारविहीनोऽपि कनककटकायलं. काररहितोऽपि सुदृक् सौभाग्यकृत् मृगाक्षी तस्याः सौभाग्यहेतुर्भवतीत्यर्थः । 'नः कौमारहर' इत्यादिकाव्यप्रकाशोक्तोदाहरणे अलंकारराहित्येऽपि माधुर्यादिगुणस. त्वात्सुदृक्शब्दितपण्डितानां सौभाग्यशब्दितानन्दजनकत्वमस्त्येवेति भावः । एतेन अलंकाराभावेऽपि गुणसत्त्वे सौभाग्यसत्त्वमित्यन्वयः सूचितः । गुणहीनेत्युत्तरा?क्तव्यतिरेकस्तु स्फुट एव । तत्र गुणहीनशब्दालंकारोदाहरणमुक्तं काव्यप्रकाशे-'ख. च्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्च्छन्मोहमहर्षिहर्षविहितस्नानाहिकाहाय वः। भिद्यादुद्यदुदारदर्दुरदरीदीर्घा दरिद्रद्रुमद्रोहोद्रेकमयोर्मिमेदुरमदा मन्दाकिनी मन्दताम्' इति । अत्र यद्यपि वक्ष्यमाणलक्षणो दीर्घसमासादिरूप ओजःसंज्ञको गु. णोऽस्त्येव तथापि 'दीयात्मविस्तृतेर्हेतुरोजोवीररसस्थितिः' । बिभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च' इति तत्रत्यसूत्रवचनाद्वीररसादावेव तस्योपयुक्तत्वेनात्र गङ्गावर्णनेनुपयुक्तत्वात्प्रत्युत दोषत्वाच नैर्गुण्यमेव । यद्यपीदं तत्राव्यङ्गयात्मकाधमकाव्यगशब्दचित्रत्वेनोदाहृतं तथाप्युक्तरीत्या निर्गुणत्वसत्वात्तदुदाहरणमपीति न दोषः । एवं 'मोक्षः स्वकृष्णसारेक्षणेक्षणे नैव तत्क्षणाद्भवति। इत्याचक्षंख्यक्षः समैक्षि गौर्या कटाक्षेण' इत्येवंजातीयकं गुणहीनार्थालंकारोदाहरणमपि ज्ञेयम् । अत्र यद्यपि शब्दालंकार एव भाति तथापि श्लेषेणार्थालंकारोऽप्यस्तीति ॥ २३ ॥ कथं तर्हि काव्यप्रकाशादिमहानिबन्धेषु गुणेभ्योऽलंकारभिन्नतोक्तिरित्याशङ्कय गुणानां 'माधुयौजःप्रसादाख्यास्त्रयस्तेन पुनर्दश' इति तदीयसूत्रवचनेन त्रित्वादलंकाराणां च बहुत्वादेवे. त्साह-स्फीतदृष्टिविति।स्फीता विशाला दृष्टिः प्रज्ञा येषां तेषु दीर्घदर्शिषु मम्मटभट्टप्रभृतिष्वित्यर्थः । अत्र जहल्लक्षणया तत्कृता ग्रन्था ग्राह्याः । पक्षे विशाललो. चनाखितियावत् । तत्त्विति तुशब्दः शङ्काशान्त्यर्थः । तत् अलंकारपार्थक्यदर्शनं तेषां अलंकाराणां बाहुल्यात् विपुलत्वात्तथा तेषां गुणानां सौम्यतः सूक्ष्मत्वात्पूर्वोक्तरीत्या त्रित्वात्, पक्षे मुक्ताफलादिसूक्ष्मरन्ध्रार्हत्वाद्युक्तमेवेत्यध्याहृय योज्यम् । मया तु रसिकालादकत्वसाधर्म्यण गुणेष्वेव तदन्तर्भाव उक्त इति न
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy