Book Title: Sadhvachar Shatrinshika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ फेब्रुआरी २०११ १२७ द्विषन् दुःशब्दानामनवरतमेवं दुरितकृत् । ततो गायँ नादग्रहकरणगं मे हर विभो ! ॥२७।। विधाप्याथो रूपे ध्रुवमभिमते रागविवशं तथाऽनिष्टे द्विष्टं सततविकलं मां स्वकलने । विनाऽन्तर्नेत्राभ्यामिह परिगृहीतोऽहमभवं प्रभूताशातस्तन्मम भुवि कदा स्यात् स्ववशता ? ॥२८॥ जिघृक्षन्निर्यासं सुरभितरसारं सुमनसां पशून् हिंसन् वस्कन्यपि(?) मृगमदाद्ये त्वभिमते । अहो ! प्राणी घ्राणेन्द्रियपरिगृहीतोऽघनिचयं न कं कुर्यान्नाथ ! प्रतिदिश ततो मेऽस्य विजयम् ॥२९॥ न हन्तव्या जीवा इति मनसि जानन्नपि जनो निहत्यैतान् भुङ्क्ते तदनु जगति भ्राम्यति भृशम् । कथं नो मूढः स्याद् बत परिगृहीतो रसनया ततो मामेतस्याश्चरितविजयायाऽऽदिश विभो ! ॥३०॥ सुखान् स्पर्शानिच्छन्ननुदिनमनिच्छन्नसुखदान् महारम्भं मूढो महयति भवाब्धौ भ्रमति तत् । इति श्रद्धायेश ! स्वसहजसमाधाननिरतः कदा रागद्वेषापनयनपटुः स्यामहमिह ॥३१॥ तमोरूपेऽप्काये प्रसरति भृशं लोककुहरे सचित्तं स्यात् सर्वं न च किमपि दृश्यं जनदृशा । कथङ्कारं साधुः प्रभवति तदा भोक्तुमशनं विहर्तुं वा भूमौ तदिह मम मा भूदिदमघम् ॥३२॥ अयं साधुः शान्तो मृदुरयमृजुनिस्पृहतमस्तपस्वी संयन्ता हितमधुरवादी शुचिरयम् । अकिञ्चित्को ब्रह्मव्रतभृदिति यत्र क्षितितले भविष्यामि ख्यातो मम जिन ! कदा भावि तदहः ? ॥३३॥ स्थिति छिन्दन् भिन्दन् रसमखिलकर्मस्वविरलं स्वमात्मानं शुद्ध्याऽगणितगुणवृद्ध्या विमलयन् ।

Loading...

Page Navigation
1 ... 4 5 6 7